________________
(२२०)
सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] ण्युदाहरणमाह । गोषु दुह्यमानासु सतीषु चोरो गतः । दुह्यमानास्वित्यत्र कर्मणि यक् ॥ इति सप्तमी ॥
( तत्त्वदी०)-क्रियालक्षणं भाव इति ॥ भवनं भावः ॥ क्रिया । भावोऽस्यास्तीति मत्वीयोऽप्रत्ययः । लक्ष्यत इति लक्षणम् । क्रियाया लक्षणं क्रियालक्षणं बोधकमिति यावत् । अप्रसिद्ध क्रियाबोधिका या प्रसिद्धक्रिया तद्वतः सप्तमीत्यर्थः ॥ वर्षतीत्यादि ॥ देवाभिन्नाश्र. यिका या वर्षणक्रिया तयोपलक्षितभूतं यदागमनं तदाश्रयश्चोर इत्यर्थः । इतोऽन्याथें द्विती. यादिसिद्धयर्थ शेषा इत्यत्य योगविभागः कार्यः ॥ इति सप्तमी ॥
(विनासहनमसृतेनिर्धारणस्वाम्यादिभिश्च ) एतैोंगे द्वितीयाया विभक्तयः ॥ विनादियोगे द्वितीया । विना पापं सर्व फलति । अन्तरेणाक्षिणी किं जीवितेन । अन्तरा त्वां मां हरिः । जपमनु प्रावर्षत् । अनु हरिं सुराः । भक्तो हरिमभि । उपहरिं सुराः । नदीमन्ववसिता सेना। अति देवान् कृष्णः। अभितो ग्रामम् । सर्वतो नगरम् । धिग् जाल्मम् । उपर्युपरि पर्वतम् । अध्यधि लोकम् । अध्यधि सुखम् । अधोऽधो ग्रामम् । उभयतः कृष्णम् ॥ एवं परितः समयानिकषाहाप्रतिपरियोगेऽपि ॥
(सुबोधिनी)-अथोपपदविभक्तिमाह-विनासहनमसृतेनिर्धारणस्वाम्यादिभिश्च ॥ विनाच सहश्च नमश्च ऋते च निर्धारणं च स्वामी च ते विनासहनमसृतेनिारणस्वामिनः ते आदयो येषां ते विनासहनमसृतेनिरिणस्वाम्यादयस्तैर्विनासहनम. सृतेनिर्धारणस्वाम्यादिभिः । 'द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यते' इत्यादिशब्दः प्रत्येकं योज्यः। शेषा इत्यनुवर्तते । शेषा द्वितीयाद्या विभक्तयो यथाक्रममेषां योगे भवन्ति ॥ विनादियोगे द्वितीया । पापं विना सर्वं फलति । पापस्याभावे सर्व कर्म फलप्रदं भवतीत्यर्थः ॥ अक्षिणी अन्तरेण । नेत्रयोरभावे चक्षुषी विना इत्यर्थः।। अन्तरेणेति निपातो मध्यार्थकोऽपि । यथा । "मृणालसूत्रामलमन्तरेण स्थितश्चलबामरयोदयं स" इत्यत्र चलच्चामरयोदयस्य मध्ये स्थित इत्यर्थः ।। अन्तरा त्वां मां तव मम च मध्ये इत्यर्थः । योगे इति किम् । अन्तरा त्वां मां हरेर्मूतिः । अत्र हरिशब्दान्न द्वितीया अन्तराशब्देनान्वयाभावात् ॥ हेतुसहहीनार्थकानुयोगे द्वितीया। यथा।जपमनु मेघः प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः। हेतौ तृतीयावाधिका द्वितीयाऽत्र ॥ नदीमनु नया सह सेना अवसिता। संबद्धेत्यर्थः। पिञ् बन्धने । अस्मात् क्तः । षष्ठीवाधिका द्वितीयाऽत्र ॥ अनुहरिं सुराः हरेहींना इत्यर्थः ॥ भक्तो हरिमभि हरिमभिवर्तते इत्यर्थः ॥ उत्कृष्टादेव द्वितीया नापकृष्टात् । शक्तिस्वभावात् ॥