SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ( १९८ ) सिद्धान्तचन्द्रिका | [ स्त्रीप्रत्ययाः ] हैमकोशे ॥ मैथुनेच्छायां सुरतवाञ्छायां कामुकी । वनादिकं कामयितुं शीलं यस्याः सा कामुका । पाकोकण इत्युकण् ॥ केशविन्यासे केशरचनायां कबरी | अन्या कबरा | चित्रेत्यर्थः ॥ ( तत्त्वदी ० ) - जानपदेत्यादि ॥ पुंयोगे इत्यत्र चकारस्य व्यवस्थितत्वाश्रयणादिति भावः ॥ आवपन इति ॥ ओप्यते निक्षिप्यते धान्यं यस्मिन् तत्तस्मिन् । गोणाऽन्या याहच्छिकं नाम ॥ अकृत्रिमायामिति ॥ असंस्कृतायामित्यर्थः ॥ श्राणेति ॥ पक्वेत्यर्थः ॥ अयोविकार इति ॥ फाल इत्यर्थः ॥ कुशा औदुम्बराः शंकवः ॥ ( शोणाद्वा) शोणी - शोणा ॥ (सुबोधिनी ) - शोणाद्वा ॥ शोणशब्दादा ईपू स्यात् ॥ " शोणः कोकनदच्छविः" इत्यमरः ॥ (बहुव्रीहेर्जातिपूर्वात् कान्तात् ) ऊरुभनी ॥ (सुबोधिनी) - बहुव्रीहेजति पूर्वात् क्तान्तात् ॥ जातिवाचिपूर्वपदात् क्तान्ताददन्ताद्बहुव्रीहेः स्त्रियामीप् । भिन्नावूरू यस्या इति बहुव्रीहौ भिन्नशब्दस्य बहुव्रीहौ विशेषण सप्तम्यन्तत्तान्तानामिति पूर्वनिपाते प्राप्ते कचिन्नेति परनिपातः ॥ - ( तत्वदी ० ) - बहुव्रीहेरिति ॥ एतद्वीजं तु चकार एव ॥ (जातान्तान्न ) दन्तजाता ॥ ( सुबोधिनी ) - जातान्तान्न || जातशब्दान्ताद्बहुव्रीहेर्जातिवाचिपूर्वपदादीप् न । दन्ता जाता यस्याः सा दन्तजाता ॥ (अस्वाङ्गपूर्वपदाद्वा) सुरापीती - सुरापीता ॥ ( सुबोधिनी ) - अस्वाङ्गपूर्वपदाद्वा ॥ अस्वाङ्गवाचि पूर्वपदात् क्तान्ताददन्ताद्वहुश्रीहेः स्त्रियां वेप् स्यात् । पीता सुरा यया सा सुरापीता । कचिन्नेति क्तान्तस्य परनिपातः ॥ बहुव्रीहेर्जातिपूर्वपदादित्यनेन नित्ये प्राप्ते विकल्पार्थमेतत् ॥ ( तत्त्वदी ० ) - सुरापीतीति ॥ नाम्नः कृतेति व्युत्पत्तेः प्रागेव समासे सिबन्ते न । समासे तु सुरापीतेत्यादिकमेव ॥ ( पाणिगृहीती भार्यायाम् ) अन्या पाणिगृहीता || (सुबोधिनी) - पाणिगृहीती भार्यायाम् ॥ यस्याः पाणिरग्निसाक्षिको गृह्यते तस्यां वाच्यायां पाणिगृहीतशब्दादीप् स्यात् ॥ अन्येति ॥ कौतुकादिना पाणिगृहीतो यस्या दास्यादेः सा पाणिगृहीता ॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy