________________
[अव्ययानि ] टीकाद्वयोपेता।
(१७५) उपसर्गस्वरविभक्तिप्रतिरूपकाश्च ॥ उपसर्गप्रतिरूपको यथा अवदत्तमिति । दो दत्तीति दथादेशः । इह अवस्थानुपसर्गत्वात्स्वरान्तो वेति तकारो न भवति ॥ स्वरप्रतिरूपको यथा । अ आ इत्यादि । विभक्तिप्रतिरूपको यथा । अहंयुः। अहमिति सिवन्तप्रतिरूपकमहङ्कारे वर्तते । ऊर्णाहंशुभंभ्यो युरिति युः ॥ यदाऽस्मच्छब्दान्निष्पन्नोऽहंशब्दस्तस्मात् प्रत्ययः क्रियते तर्हि समासप्रत्यययोरिति लुकि सति अस्मद्यु इति स्थिते मदीय इत्यत्रेव मदादेशे मद्युरिति स्यादिति भावः ॥ हेताविति निमित्ते ॥ स्वयमित्यात्मनेत्यर्थे । उतेति विकल्पे । नजिति निषधेषदर्थविक्षेपेषु तदन्यतविरुद्धतदभावेषु च ॥ स्वधेति पितृभ्यो दाने ॥ स्मेत्यतीते पादपूरणे च ॥ अस्मीत्यहमित्यर्थे । वै पादपूरणे विशेषेप ॥ शम्बडित्यन्तःकरणे आभिमुख्ये च ॥ नो निषेधे ॥ दिष्टया इत्यानन्दे । सद्भजनदर्शनप्रातिलोम्येष्वित्यन्ये ॥ अइति संबोधनऽधिक्षेपे निषधे च ॥ आ इति वाक्यस्मरणयोः ॥ इ इति संबोधनजुगुप्सा. विस्मयेषु ॥ई भत्सन ॥ उ ऊ दुःखवितर्कयोः ॥ ऋ ऋल गानसमहे ॥ ए संबोधने ॥ ऐ आश्चर्ये ॥ ओ संबोधने ॥ औ अङ्गीकारे ॥ पशु सम्यगर्थे ॥ शुकम् शैध्ये ॥ यथाकथाचेत्यनादरे । पाट्, प्याटू, अंग, हे, है, भो, अये (यि) एते सप्त संबोधने ॥ येति हिंसाप्रातिलोम्यपादपूरणेषु ॥ विषु इति नानार्थे ॥ रे, अरे, एतौ, नीचामन्त्रणे ॥ एकपदे इत्यकस्मादित्यर्थ ॥ द्राक् मङ्घ, एतौ शैघ्ये ॥ युत् इति कुत्सायाम् । आतः इतीतोऽपीत्यर्थे ॥ श्रौषट्, वौषट्, एतौ हविर्दीने ॥ अन्येऽपि सन्ति । तथाहि । कामम् स्वाच्छन्द्ये ॥ प्रकाममित्यतिशये ॥ साम्प्रतमिति न्याय्ये ॥ परमिति किन्त्वथें ॥ साक्षादिति प्रत्यक्षे ॥ साचीति तिर्यगर्थे ॥ संवदिति वर्षे ॥ अवश्यमिति निश्चये ॥ उषेति रात्रौ ॥ ओमिति अंगीकारे ब्रह्मणि च ॥ भूरिति पृथिव्याम् ॥ भुव इत्यन्तरिक्षे ॥ कु कुत्सितेषदर्थयोः॥ अञ्जसेति तत्त्वशीघ्रार्थयोः॥ मिथु इति द्वावित्यर्थे । अस्तमिति विनाशे ॥ स्थाने इति युक्ते ॥ वरमिति ईषदुत्कर्षे ॥सुदीति शुक्लपक्षे॥ वदीति कृष्णपक्षे ॥ तुमिति तुङ्कार ॥आहेति उवाचेत्यर्थे॥ आसेति बभूवेत्यर्थे।आयेति प्रतिबन्धे । असीति त्वमित्यर्थवाक्यालंकारयोः। ब्रूहीति प्रैषानुज्ञावसरेषु । वामिति युवामित्यर्थे । चटु, चाटु, एतौ प्रियवाक्ये । एवमन्येऽप्यूह्याः॥ तत्रादिविभक्त्यर्थे । आदिशब्दः प्रकारे वर्तते गणाभावात् । विभक्तीनामथर्थोऽभिधेयो योऽपादानादिस्तस्मिन्नर्थे तत्रादिनिपात्यते । तत्र आदिर्यस्य स तत्रादिः शब्दसमूह इत्यर्थः ॥ तस्मिन्निति तत्र ॥ अस्मिन्नित्यत्र ॥ यस्मिन्निति यत्र ॥ कस्मिन्निति कुत्र, क्व ॥ तेन प्रकारेण तथा ॥ सर्वेण प्रकारेणेति सर्वथा ॥ केन प्रकारेणेति कथम् ॥ अनेन प्रकारेण एतेन प्रकारेण वेतीत्थम् ॥ तस्मात्तस्या वेति ततः ॥ यस्मात् यस्या वेति यतः ॥ यस्मात् कस्या वेति कुतः॥ सर्वस्मात सर्वस्या वेति सर्वतः ॥ बहोरिति बहुतः॥ पूर्वस्मिन् देशे पूर्वस्माद्देशात्पूर्वो वा देशः