________________
[ स्वरान्त पुंलिंगा: ]
टीकाद्वयोपेता ।
(८५)
शोभनः सखा सुसखा, सुसखायौ, सुसखायः । सुसखीन् । सुसखये | सुसखेः । सुसखौ॥अतिशयितः सखा अतिसखा । परमः सखा परमसखा । सखीमतिक्रान्तोऽतिसखिः । इह डावे न । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायात् ॥ पतिः पती, पतयः । पतिमू, पती, पतीन् । पत्या | पत्ये । पत्युः । पत्यौ ॥
(सुबोधिनी) - ऋतो ङ ङः ॥ डिदित्यनुवर्तते । ऋदन्तान्नाम्नः परो ङ उः स्यात् ॥ स च डित् ॥ नाम्नः किम् | आरत् । उरिति लिङ्गात्केवलादपि ऋत उर्भवति । ऋगागमे कृते यत्वात्वटिलोपाः । सख्युः । तदन्ते यथा । शोभनः सखेति प्रादिसमासे तत्पुरुषे राजाहः सखिभ्य इति टप्रत्ययो न पूजार्थोपपदे निषेधात् । इहैडात्वयोः प्रवृत्तिस्तदन्तग्रहणात् । सुसखिशब्दस्य पञ्चसु सखिवद्रूपम् । शेषं हरिवत् ॥ एवमतिशयितः सखेति अतिसखा । प्रादिसमासोऽत्र परमः सखा यस्य स परमसखेति बहुव्रीहिः । कर्मधारये तु टप्रत्ययेन भाव्यम् । गौणत्वेऽप्यैडात्वे भवतः । अतिदध्नेत्यादावच्चास्थ्नामितिवत् ॥ सखीमतिक्रान्तोऽतिसखिः । अत्यादय क्रान्ताद्यर्थेः इति तत्पुरुषः । अन्यार्थे इति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् टप्रत्यय ऐडात्वे च न । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्येति परिभाषणात्। लक्षणं च प्रतिपदं च लक्षणप्रतिपदे लक्षणप्रतिपदाभ्यामुक्तौ लक्षण प्रतिपदोक्तौ तयोः । द्वन्द्वान्ते श्रूयमाणत्वादुक्तशब्दः प्रत्येकं संबध्यते । लक्षणोक्तः प्रतिपदोक्त इति । लक्षणेन सूत्रेणोक्तो लाक्षणिक इकः । प्रतिपदोक्तस्य झटिति बुद्धयारोहो लाक्षणिकस्य तु लक्षणानुसंधानद्वारेण विलम्बितो बुद्धयारोहो भवतीत्यर्थः । क्लीचे तु पूर्वेणापि नुमा परस्यात्वस्य वाधः क्रियते । प्रायशो दृश्यतामित्युक्तत्वात् । यथा प्रियसखिनी, प्रियसखीनि । पतिशब्दस्य टाङेङसिङङिषु सखिवद्रूपम् | शेषं हरिवत् ॥
(तत्त्वदी०)-ऋतोङ उरिति । अत्र नाम्न इति ऋदन्तस्य विशेषणम् । स्यादेरिति ङस्य ॥ तेन आरत् कर्तृ ङवते इत्यादौ नातिप्रसङ्गः । सख्युरित्यादिलिङ्गाच्चतुथ्यैकवचनस्यादेशे लोपे चन निर्देशशंका ॥ ऋतः किम् । ग्लावः ॥ ऋतो उरिति सूत्रणीये नग्रहणं वर्णमात्रविधौ यदादेशस्तद्वद्भवतीति न प्रवर्तते इति ज्ञापनाय । तथा हि ऋतः अः उरिति छेदः । जसमोस्तु परत्वगुण एव स्थानिवद्भावेन प्राप्तोऽपि पञ्च सुग्रहणसामर्थ्यान्न । अन्यथा अवत्येवोच्येत । तथा च शस्यतिप्रसङ्गः। तत्रापि परत्वाच्छसीति दीर्घेण भवितव्यम् । दीर्घे कृतेऽपि यदादेशस्तद्वदित्यनेनोत्वेन भाव्यम् । एवं चोत्वे कृते यदादेशस्तद्वदित्यम्शसोरस्येत्यलोपो भविष्यनि । इत्थं च कृताकृतप्रसङ्गित्वेन नित्यत्वादतः पूर्वमलोपो भविष्यति । तथा च शस्यपि नातिप्रसङ्गनिःशङ्केति तज्ज्ञापनफलकमेव ङकारग्रहणमिति वृद्धाः ॥ अतिसखिरिति ॥ अन्यार्थे इति हस्वः ।