________________
[विभक्त्यर्थाः ] टीकाद्वयोपेता।
( २३७) (सुबोधिनी)-धुतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी ॥ द्यूतमर्थो यस्य स द्यूतार्थस्तस्य द्यूतार्थस्य । क्रयश्च विक्रयश्च क्रयविक्रयौ क्रयविक्रयौ रूपं यस्य सः क्रयविक्रयरूपः क्रयविक्रयरूपश्चासौ व्यवहारश्च क्रयविक्रयरूपव्यवहारः क्रयविक्रयरूपव्यवहारोऽर्थो यस्य सः ऋयविक्रयरूपव्यवहारार्थस्तस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः धातोः कर्मणि षष्ठी स्यात् । द्यूतार्थेत्यादि किम् । ब्राह्मणं दीव्यति । स्तोतीत्यर्थः॥
( वोपसर्गस्य ) शतस्य शतं वा प्रतिदीव्यति ॥ (सुबोधिनी )-वोपसर्गस्य ॥ उपसर्गपूर्वकस्य दिवः कर्मणि वा षष्ठी स्यात् ॥ पूर्वमूत्रापवादः॥
(षष्ठी हेतुप्रयोगे ) अन्नस्य हेतोर्वसति ॥ .(सुबोधिनी )--षष्ठी हेतुप्रयोगे ॥ हेतुशब्दप्रयोगे षष्ठी स्यात् ॥ हेतुशब्दाच्च। हेतौ तृतीयायां प्राप्तायामनेन षष्ठी ॥
(सर्वादेहेतुप्रयोगे हेतौ द्योत्ये च तृतीयाषष्ठयौ ) केन हेतुना वसति । कस्य हेतोः॥
(सुबोधिनी )-सादेहेतुप्रयोगे हेतौ द्योत्ये च तृतीयाषष्ठयौ ॥ सर्वादिगणात्तृतीयाषष्ठ्यौ । तेन हेतुशब्दादपि तृतीयाषष्ठ्यौ ॥
(निमित्तपर्यायप्रयोगे सर्वादेः सर्वा विभक्तयोऽसर्वादेस्तृतीयादयः) को हेतुः । किं प्रयोजनम् । कं हेतुम् । केन हेतुना । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्ताय ॥
(सुबोधिनी )-निमित्तपर्यायप्रयोगे सर्वादः सर्वाः विभक्तयोऽसर्वादेस्तृतीयादयः ॥ सर्वादेनिमित्तपर्यायप्रयोगे सर्वा विभक्तयः स्युः । असर्वादेस्तु प्रथमाद्वितीये न स्तः अन्याः स्युः। षष्ठी हेतुप्रयोगे सर्वादेर्हेतुप्रयोगे इति च सूत्रद्वयं गतार्थ बोध्यम् ।
(तत्त्वदी०)-निमित्तपर्यायप्रयोग इति ॥ चकारस्यानुक्तसमुच्चयार्थस्यानुवर्तनात् एतत्सर्वार्थलाभः ॥ सर्वा विभक्तय इति ॥ सर्वादेरित्यर्थः ॥
(अन्योक्ते प्रथमा) आख्यातकृत्समासतद्धितनिपातोक्ने कारके सम्बन्धे च प्रथमा स्यात् ॥ घटः क्रियते । हरिः करोति । कृष्णः कंसं