SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) सिद्धान्तचन्द्रिका | [विभक्त्यर्थाः ] ( सुबोधिनी ) - भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थस्येनश्च योगे षष्ठी न ॥ 'तुमर्थे वुणू' इति भविष्यत्यर्थेऽपि वुण् प्रत्ययो भवति । युवोरनाकावित्यकादेशः । तस्य भविष्यदर्थकस्याकस्य योगे कर्मणि षष्ठी न स्यात् ॥ यस्तु कालसामान्ये तृणाविति वुणुक्तस्तत्र न निषेधः । यथा ओदनस्य पाचकः । देशानां दर्शकः ॥ आवश्यकाधमयोर्णिनिरित्यादिना इनिप्रत्ययो भविष्यत्यथै आधमण्येऽर्थे च भवति । तस्य योगे कर्मणि षष्ठी न । सत इति शतृप्रत्ययान्तरम् । सज्जनान्पालयिष्यतीति पालकः । भविष्यत्यर्थे वुण् ॥ गमिष्यतीति गामी | भविष्यत्यर्थे णिनिः ॥ ददातीति दायी । अधमर्णो ग्राहकः । अधमर्णस्य भाव आधमर्ण्य तस्मिन्नाधमये णिनिः ॥ ( कृत्यानां कर्तरि वा षष्ठी ) मया मम वा सेव्यो हरिः ॥ ( सुबोधिनी ) - कृत्यानां कर्तरि वा षष्ठी ॥ कृत्यसंज्ञकप्रत्ययानां योगे कर्तरि षष्ठी वा स्यात् ॥ कर्तृकार्ययोरिति नित्यं प्राप्ते विकल्पार्थमिदम् ॥ हरिर्मया मम वा सेव्यः । षेव सेवायामस्मात् ऋहसान्ताद् ध्यणिति कर्मणि ध्यण ॥ कर्तरि किम् । माणवकः साम्नां वेदानां गेयः । स्वराद्य इति कर्तरि यप्रत्ययविधानादुक्तं कर्म । तव्याऽनीयध्यण्यक्यप एते पञ्च कृत्यप्रत्ययाः ॥ (उभयप्राप्तौ कृत्ये षष्ठी न ) नेतव्या व्रजं गावः कृष्णेन ॥ ( सुबोधिनी) - उभयप्राप्तौ कृत्ये षष्ठी न ॥ कर्तरि कर्मणि च प्राप्तौ सत्यां कृत्यप्रत्यययोगे उभयत्र षष्ठी न स्यात् ॥ उभयप्राप्तौ कृतीति सूत्रेण कर्तरि षष्ठीनिधे कर्मणि षष्ठी निषेधार्थमिदम् ॥ गुणकर्माणि वेति सूत्रम् उभयप्राप्तिरहितस्थले नेता ग्रामं ग्रामस्य वाऽश्वस्येत्यादौ चरितार्थं बोध्यम् ॥ ( तत्वदी ० ) - उभयप्राप्ताविति ॥ कर्तृकर्मप्राप्तावित्यर्थः ॥ ( दूरनिकटार्थयोगे षष्ठीपञ्चम्यौ ) दूरं निकटं वा ग्रामस्य यामाद्वा ॥ ( सुबोधिनी) - दूरनि कटार्थयोगे षष्ठीपञ्चम्यौ ॥ षष्ठयां प्राप्तायां पक्षे पञ्चम्यर्थे वचनम् ॥ ( दूरनिकटार्थेभ्यो नामार्थमात्रेभ्यो द्वितीया तृतीया पञ्चमी सप्तमी ) ग्रामस्य ग्रामाद्वा दूरं दूरेण दूरात् दूरे निकटं वा ॥ ( द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी) शतस्य दीव्यति ॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy