________________
(२३८) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] हतवान् । कृष्णेन कंसो हतः । पचनोऽग्निः। दानीयो विप्रः । उपाध्यायः। पचनी स्थाली । प्राप्तानन्दः । ऊढरथः । उपहृतपशुः । उद्धृतौदना । पीताम्बरः । वीरपुरुषः । कौकुमम् । माथुरः । धनवान् । दृषद्वती । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतमिति । क्रमादमुं नारद इत्यबोधि सः॥ इति विभक्त्यर्थाः॥
( सुबोधिनी )-अन्योक्ते प्रथमा ॥ कार्थे द्वितीया स्यात् । अन्योक्ते कार्ये तु प्रथमा ॥ कर्तरि तृतीया । अन्योक्ते कर्तरि प्रथमा॥ करणे तृतीया । अन्योक्ते करणे प्रथमा ॥ संप्रदाने चतुर्थी । अन्योक्त संप्रदाने प्रथमा ॥ अपादने पञ्चमी । अन्योक्ते अपादने प्रथमा ॥ संबन्धे षष्ठी । अन्योक्ते संबन्धे प्रथमा ॥ अधिकरणे सप्तमी । अन्योक्ते अधिकरणे प्रथमा ॥ आख्यातोक्ते यया। घटः क्रियते मैत्रेण । आद्भुः चीति कर्मण्यात् । यक् चतुर्विति यक् ।। हरिः सुखं करोति । 'कर्तरि पं च' इति परस्मैपदम् । तनादेरुबित्युप ॥ कृदुक्ते यथा । कृष्णः कंसं हतवान् । 'क्तक्तवत्'इति कर्तरि क्तवतुः ॥ कृष्णेन कंसो हतः । कर्मणि क्तः ॥ पच्यतेऽनेनेति पचनोऽग्निः। साधनाधारयोर्युडिति करणे युटू ॥ दीयतेऽस्मा इति दानीयः । तव्यानीयाविति संप्रदानेऽनीयः ॥ उप समीपे गत्वा अधीयतेऽस्मादित्युपाध्यायः । संज्ञायामकर्तरि चेत्यपादाने घन ॥ पच्यतेऽस्यामिति पचनी । साधनाधारयोरित्यधिकरणे युट् । स्थाली हण्डिका ॥ समासोक्ते यथा । प्राप्त आनन्दो यं स प्राप्तानन्दः ॥ ऊढो रथो येन स ऊढरथोऽनड्वान् वृषभः॥ उपहतः पशुर्यस्मै स उपहृतपशू रुद्रः ॥ उद्धृत ओदनो यस्याः सा उद्धृतोदना स्थाली ॥ पीतमम्बरं यस्य स पीताम्बरो हरिः॥ वीरा पुरुषा यस्मिन् स वीरपुरुषो ग्रामः ॥ तद्धितोक्ते यथा । कुंकुमेन रक्तं वस्त्रं कौंकुमम् तद्धितेनोक्तं कर्म । मथुराया आगतः माथुरः ॥ अण्प्रत्ययः ॥धनमस्यास्तीति धनवान् । मान्तोपधादत्विनौ इति वतुः॥दृषद् उपलाः सन्त्यस्यामिति दृषद्वतीभूमिः॥ निपातोक्ते यथा। विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतमित्यत्र संवद्धयेति भावे क्यपू क्यबन्तस्य क्रियापदस्य विषवृक्षमिति द्वितीयान्तं कर्म तत्रासांप्रतमित्यनेन निपातेनोक्तत्वात् प्रथमा । स्वयमात्मना छेत्तुमसांप्रतं न युज्यते इत्यर्थः ॥ क्रमादमुं नारद इत्यबोधि सः। अबोधीत्यत्र दीपजनबुधेति कर्तरीण । तस्य नारदमिति द्वितीयान्तं कर्म । तत्र इतिनिपातयोगात्मथमा । उक्तं च। “यस्मिन्नर्थे विधीयन्ते लकारास्तद्धिताः कृतः । समासो वा भवेद्यत्र स उक्तः प्रथमा ततः॥” इति कारकप्रक्रिया ॥
( तत्त्वदी०)-अन्याक्ते प्रथमेति ॥ अन्येन उक्तम् अन्योक्तं तस्मिन्कार्ये इत्यादौ प्रत्येक संबध्यते । प्रत्येकाभिप्रायादेकवचननिर्देशः ॥ कार्ये द्वितीया, अन्योक्ते प्रथमा ॥ कर्तरि तृतीया।