________________
[ हसान्तपुंलिंगाः] टीकाद्वयोपेता।
(१३३) (तत्त्वदी० )-थो नुडिति ॥ अत्र द्वयोरेवानुवृत्तिः तृतीये थस्यासंभवात् ॥ ननु थस्य नुडिति सूत्र्यताम् । थस्येति निर्देशादकारोऽपि । तथा च किमिति सूत्रेणेति चेत्सत्यम् । ऋभुक्षा इति न सिद्धयेत् ॥
(आ सौ) पथिमथिऋभुक्षां टेरात्वं भवति सौ ॥ पन्थाः, पन्थानौ पन्थानः । हे पन्थाः । पन्यानम् ॥
(सुबोधिनी)-आ सौ ॥ पयां टेरिति पदद्वयमनुवर्तते । पथ्यादेष्टेरात्स्यात् सिप्रत्यये॥ सौ किम् । पथिभ्याम् ॥ __ (तत्त्वदी० )-आ साविति ॥ अत्र पथां टेरिति पदद्वयमप्यनुवर्तत इत्यतआह-टेरात्वमिति ॥ अत्राहुः । पथ्यादीनामन्त्यस्यात्वं भवति । अन्त्यस्येति षष्ठीनिर्दिष्टस्यति परिभाषया लभ्यते इति । अत्र साक्षादनुवृत्तं टेरिति त्यक्त्वा परिभाषालब्धस्यान्त्यस्येत्यस्यानुकरणे गौरवात् । आ आ इति प्रश्लेषादनुनासिकस्यापि स्थाने विहितो नानुनासिकः ॥ ननु किमर्थमात्वम् । इतोऽदित्यत्वे नोपधाया इति दीर्घत्वे सौ रसे नलोपशि पश्चाद्विसर्गे पन्था इति रूपसिद्धेरिति चेन्न धौ नलोपशोऽभावे हे पंथा इति न सिद्धयेत् । राजेत्यत्रानिष्टापत्तेश्च । अ सावित्येव तु न कृतं नकारमात्रस्यात्वे सवर्णदीर्वत्वेन सिद्धेऽपि पथीशब्दस्य पंथा इत्यसिद्धेः। टेरनुवृत्तौ तु मुख्येऽपि रूपासिद्धेश्च ॥
( पथां टेः पथिमथिऋभुक्षां टेलोंपो भवति शसादौ स्वरे ईपीकारे च ॥ पथः । पथा। पथिषु ॥ एवं मन्थाः । ऋभुक्षाः ॥ स्त्रियां नान्तत्वादीप् । सुपथी । सुमथी । अनृभुक्षी सेना ॥ क्लीबे शोभनः पन्थाः यस्मिन् वने तत्सुपथि वनम् ॥
(सुबोधिनी)-पथा टेः ॥ पथ्यादेष्टेलोपः स्यात् शसादौ स्वरे ईपीकारे च ॥ पथामिति बहुवचनमाद्यर्थम । स्त्रियां व्रण इतीप् । ततष्टिलोपः। सुष्ठु पन्थाः यस्याः सा सुपथी रथ्या । ऋकपूरित्यप्रत्ययो न न पूजने' इति निषेधात् । कप्रत्ययस्तु समासान्तविधेरनित्यत्वान्न ॥ सुष्ठु मन्थाः यस्यां सा सुमथी नगरी ॥ न विद्यते ऋभुक्षाः इन्द्रो यस्यां सा अनुभुक्षी सेना ॥ क्लीचे सुष्टु पन्थाः यस्मिन् तत् सुपथि। आत्वं त्वत्रन । लुकि न तन्निमित्तमिति निषेधात ॥
(तत्त्वदी० )-स्त्रियामिति ॥ सुपथीति ॥ आ सावित्यात्वं थो नुडिति च लिङ्गविशिष्टपरिभाषया प्राप्तमपि विभक्तौ लिङ्गविशिष्टाग्रहणमिति निषेधान्न भवति ॥
(धौ नपुंसकानां नस्य लोपो वा )हे सुपथिन-हे सुपथि । सुपथी। सुपन्थानि ॥