________________
(१३४)
सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः] ( सुबोधिनी)-धौ नपुंसकानां नस्य लोपो वा ॥ हे सुपथि इत्यत्र नलोपस्यासिद्धयत्वाद् वृणामिति गुणो न । द्विवचने पथामिति टिलोपः। सुपथी । शौ त्वत्वे नुटि च दीर्घत्वम् । सुपन्थानि ॥ किंच पन्थानमात्मन इच्छतीति पथीयति । ततः विप्। यत इत्यल्लोपः । यवयोरिति यलोपः। एकदेशविकृतस्यानन्यत्वादा सावित्वात्वम् । थो नुडिति नुट् । पन्थाः । अत्वं तु न इत इति तपकरणात् । य्यार्धातोरितीय । पन्थियौ ॥ एवम् ऋभुक्षाः, ऋभुक्षियौ ॥
(इनां शौ सौ ) इन् हन् पूषन् अर्यमन् इत्येतेषां शौ सौ चाधौ परे उपधाया दीर्घो भवति नान्यत्र ॥ दण्डी । हे दण्डिन् । दण्डिनौ, दण्डिनः ॥ एवं कलिन्हलिन्यशस्विन्वाग्ग्मिन्प्रभृतयः ॥ वृत्रहा, वृत्रहणौ, वृत्रहणः ॥
(सुबोधिनी)-इनां शौ सौ॥ बहुवचनमाद्यर्थम् । अर्थवत्परिभाषाया आनत्यत्वादर्थवतोऽनर्थकस्यापीनोऽत्र ग्रहणम् । उपधाया इत्यनुवर्तते । अधाविति च । नोपधाया इत्यनेनैव सिद्ध नियमामिदम् । तदाह । इनादीनामुपधायाः शावेव दीघः स्यान्नान्यत्रेति । उपधादीर्घस्यैवायं नियमः । तेन वृत्रहेवाचरतीति वृत्रहायते । कर्तुये । इत्यत्र ये इति दीर्घो भवत्येव । वृत्रहणी इत्यत्र 'अमस्य काडिति झसे' इति यो दीर्घः सोऽपि नियमेन व्यावय॑ते । उपधादीर्घमात्रापेक्षया नियमविधानादिति । सावितु तु विध्यर्थम् । पूर्वेण नियमात् सावप्राप्तः । योगविभागाभिप्रायेणेव शो साविति निर्देशोऽस्ति अन्यथा शिस्योरित्येवावक्ष्यत् ॥ ननु पन्था इवाचरतीति पथीनात । किप् । इत्यादौ ञमान्तस्येत्युपधादी? न प्राप्नोति । पथ्यादीनामिन्नन्तत्वात् । इन्नादीनां शौ सावेवेत्युपधादीघस्य नियमादिति चेत् । उच्यते । यत्र इनामिति सूत्रं प्रवर्तते तत्रैवायं नियमः । यथा दण्डीवाचरतीति दण्डीयति । क्विप् । वृत्रहणति । पूषणति। अर्यमणति इति ॥ दण्डोऽस्यास्तीति दण्डी । मान्तोपधादितीन् । शौ बहवो दण्डिनः सन्ति येषां तानि बहुदण्डीनि ॥ मुसलमस्यास्तीति मुसली । हलमस्यास्तीति हली । 'तालाङ्को मुसली हली' इत्यमरः ॥ यशोऽस्यास्तीति यशस्वी। विन्॥ वागस्यास्तीति वागग्मी । ग्मिन् ॥ वृत्रं हतवानिति वृत्रहा । क्विवन्तः । 'वासवो वृत्रहा वृषा' इत्यमरः ॥ अवकुप्वन्तरेऽपीति णत्वम् । वृत्रहणौ ॥ __ (तत्त्वदी०)-इनां शौ साविति ॥ बहुवचनादिनादिलाभः । अनिनस्मिन्समुदायेऽनिनोऽपि इन्त्वमारोप्यते छत्रिणो यान्तीतिवत् । अर्थवत्परिभाषाया अनित्यत्वादनर्थकस्यापीनो ग्रहणम् । साविति ग्रहणात्तदन्तं गृह्यते पूषार्यम्णोः केवलयोः पुंस्त्वात् शेरभावात् । नोपधाया इति सिद्धे विधिरारभ्यमाणो नियमाय । तेन इन्नादीनामुपधाया दीर्घः शावेव नान्यत्रेति नियमः । नियमश्वोपधादीर्घस्यैव नान्यस्य । तेन दण्डीयति दण्डीभूत इत्यादौ भवत्येव दीर्घः।