________________
[ र मास०] टीकाद्वयोपेता।
(२६३) राजकुमारी । ब्रह्मविद्या ॥ किंच नपुंसकात्स्यमोटुंगित्यतो लुगित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तथाहि अन्यस्य तद्वितस्यार्थे वर्तमानं यत् स्त्रीप्रत्ययान्तं तदवयवस्य स्त्रीप्रत्ययस्य लुक् स्यात् । यथा पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः ॥ पञ्चभिर्तीह्मणीभिः क्रीतः पञ्चब्राह्मणः ॥ पञ्चभिरिन्द्राणीभिः क्रीतः पञ्चेन्द्रः ॥ पञ्च आनाय्यो देवता अस्येति पञ्चाग्निः ॥ पञ्च मनाय्यो देवता अस्येति पञ्चमनुः ॥ अत्र हि संख्यापूर्वो द्विगुरित्यनेन तद्धितार्थे द्विगुः । ततोऽण प्रत्ययः । तस्य लुग बहुत्वे क्वचिदित्यनेन लुकू तद्धितार्थे गौणस्य स्त्रीप्रत्ययस्यानेन लुक् क्रियते इत्यर्थः ॥ रूपवती भायों यस्यति लौकिकविग्रहः ॥
(तत्त्वदी )-अन्यार्थे इति ॥ अन्यस्यार्थः अन्यार्थस्तस्मिन् । वर्तमानस्येत्यध्याहार्ये कारकविभक्तः क्रियान्वयस्य नियमात् । ह्रस्वो वेत्यतो ह्रस्वानुवृत्तः स्वरस्यति लभ्यते । त्रिचतुरोरित्यतः स्त्रियामित्यनुवृत्तं तच्च विहितविशेषणमित्याशयेनाह-स्त्रीप्रत्ययान्तस्येत्यादि ।। अन्यार्थे किम् । राजकुमारी ॥ स्त्रीप्रत्ययान्तस्येति किम् । अतिलक्ष्मीः । स्त्रीप्रत्ययान्तस्येति समासविशेषणाद्विद्याफलमित्यादौ न ह्रस्वः । न चात्रान्यार्थत्वमेव कथमिति चेच्छृणु । अन्यार्थवृत्तित्वं हि गौणत्वम् । तच्चात्राप्यम्त्येव । अत्रोत्तरपदार्थस्यैव प्राधान्यात्पूर्वपदार्थस्य गौणत्वस्वीकारात् । वेत्यस्याप्यनुवृत्तेस्तस्य च व्यवस्थितत्वाश्रयणाबहुश्रेयसीत्यादौ न । यत्तु प्राचोक्तं स्त्रीलिङ्गस्येति । यच्च वासुदेवन व्याख्यातं त्रिचतुरोः स्त्रियामित्यतो विभक्तिविपरिणामेन स्त्रिया इति षष्ठयन्तमनुवर्तते इति । तन्न । अतिलक्ष्मीरित्यादावतिव्याप्तेः ॥
(पुंवद्वा) समासे समानाधिकरणे स्त्रीलिङ्गे परे पूर्वस्योक्तनपुंसकस्य स्त्रीलिङ्गस्य पुंलिङ्गस्येव रूपम् ॥ रूपवद्भायः ॥ उक्तपुंस्कस्य किम् । छायाद्वितीयः। गङ्गाभार्यः॥
(सुबोधिनी)-पुंवद्वा ॥ उक्तः पुमान् येन तदुक्तपुंस्कं तस्योक्तपुंस्कस्य स्त्रीवाचकप्रत्ययान्तस्य नाम्नः पुंवाचकस्येव रूपं भवति समानाधिकरणे स्त्रीलिङ्ग समासस्य चरमावयवे रूढमुत्तरपदं तस्मिन्नुत्तरपदे सति ॥ एकविभक्त्यन्तानाम् एकार्थनिष्ठत्वं समानाधिकरणत्वम् ॥ किंच यद्यत्र उक्तः पुमान् येन तदुक्तपुंस्कमित्युच्यते तहि कुटीभार्यः । द्रोणीभार्य इत्यादावतिप्रसङ्गः स्यात् । कुटीद्रोणीशब्दाभ्यामर्थान्तरे पुल्लिंगस्याप्युक्तत्वात् । तथा च । “कुटः कोटे शिलाकुट्टे घटे गेहे कुटी सुरा । चित्रगुच्छे कुम्भदास्योः कूटं पूरयन्त्रयोः" इति हैमः ॥ "द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति । नौभेदे शैलसंधौ च" इति हैमः ॥ उक्तपुंस्कस्येति किम् । छायाद्वितीयः ॥ गंगा भार्या यस्य स गंगाभार्यः । अत्रानयोनित्यस्त्रीत्वम् । अलौलिकविग्रहे रूपवती स भार्या स् इति 'अन्यार्थे' इत्यनेन ह्रस्वः । पुववेत्यनेनेपोनिवृत्तिः॥