________________
( २६२ )
सिद्धान्तचन्द्रिका |
[ समासप्र० ]
( सुबोधिनी ) - क्वचिद्वा ॥ बहुव्रीहौ कचिद्विशेषणसप्तम्यन्तत्तान्तानां वा पूर्वनिपातो भवति ॥ प्रियो गुडो यस्य स प्रियगुडः । गुडप्रियो वा ॥ आहितः अग्नियैन स आहिताग्निः । अग्न्याहितो वा ॥ असिरुद्यतो येन स उद्यतासिः । अस्युद्यतो वा ॥
( नञदुः सुभ्यः प्रजामेधयोरसुक् ) अप्रजाः । दुर्मेधाः । सुप्रजाः ॥ (सुबोधिनी ) - नञदुः सुभ्यः प्रजामेधयोरसुकू ॥ नजादिभ्यः पराभ्यां प्रजामेधाभ्यामसुकू प्रत्ययः स्याद्बहुव्रीहौ ॥ न प्रजा यस्य सः । ना इत्यनेनादादेशः । असुकूप्रत्यये यस्य लोप इत्यालोपः । अत्वसोरिति दीर्घः । अप्रजाः ॥ दुःप्रजाः ॥ सुप्रजाः || अमेधाः ॥ दुर्मेधाः ॥ सुमेधाः । अल्पमेधस इति काशिका |
(तत्त्वदी ० ) नञ्दुः सुभ्य इति ॥ नन्दुःसुभ्यः परयोः प्रजामेधाशब्दयोर सुगागमो बहुव्रीहावित्यर्थः ॥ अप्रजा इति ॥ न प्रजा यस्येति विग्रहेऽसुकि यस्येत्यालोपे अत्वसोः साविति दीर्घे रूपसिद्धिः । एतच्च प्राचामनुरोधेन । वस्तुतस्तु प्रजामेघाभ्यामसित्येव वक्तुमुचितम् । तथा चास् प्रत्यय एव न त्वागमः । एतेन यद्यप्यसुक उकारानुबन्धत्वादूत्रितो नुमिति नुम् प्राप्नोति तथापि वाऽऽदीपोः शत्रुरित्यतो वानुकर्षणान्नेति वासुदेवोक्तिः प्रत्युक्ता ॥
(धर्मादन् ) सुधर्मा । रूपवती भार्या यस्य ॥
( सुबोधिनी ) - धर्मादन् ॥ धर्मशब्दादन् प्रत्ययः स्यात् द्विपदबहुव्रीहौ ॥ सुष्ठु धर्मो यस्य स सुधर्मा ॥ ननु अकारो व्यर्थः नप्रत्ययेनैव रूपसिद्धरिति चेत् । उच्यते । धर्मं करोत्याचष्टे वेति धर्मनाम्नो ञिर्डित्करणे इति ञ्यन्तात् क्विपि धर्मिति । परमो धर्म यस्य एकदेशविकृतस्यानन्यत्वात् अन् । स परमधर्मा । इत्याद्यर्थमकारोच्चारणं बोध्यम् ॥
( तत्व ० ) -
O
दिति ॥ केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरन्प्रत्यय इत्यर्थः ॥ केवलात्किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुवीहौ मा भूत् । यत्तु वासुदेवे - नोक्तम् । केवलात्यदाद्यः केवलो धर्मशब्दस्तस्मादनुप्रत्ययो वक्तव्य इत्यर्थः ॥ तेनेह न । परमः स्वो धर्मः परमः स्वधर्मो वा यस्य स परमस्वधर्म इत्यत्रेति तन्न । आद्ये परमस्व इस्यस्य कर्म - धारयेणैकपद्यात्केवलमस्त्येव । अन्ते धर्मशब्दस्य केवलविशेषणत्वं व्यर्थम् । धर्मशब्दस्य बहुत्रीह्यवयवी भूतपूर्वपदात्परत्वस्याभावात् । उक्तं च दीक्षितैरपि संदिग्धसाध्यधर्मेत्यादौ तु कर्मवारयपूर्वपदो बहुव्रीहिः । एवं परमस्वधर्मेत्यपि साध्वेवेति ॥
( अन्यार्थे ) स्त्रीप्रत्ययान्तस्यान्यार्थे वर्तमानस्य ह्रस्वः ॥
( सुबोधिनी ) - अन्यार्थे | अन्यार्थे गौणत्वं वर्तमानस्य स्त्रीप्रत्ययान्तस्य नाम्नो ह्रस्वो भवति ॥ स्त्रीप्रत्ययस्यति किम् । अतिलक्ष्मीः | अतिचमूः ॥ गौणत्वे किम् ।