________________
[ समासप्र० 1
टीकाद्वयोपेता ।
( २६१ )
( सुबोधिनी ) - बहुव्रीहौ विशेषणसप्तम्यन्तत्तान्तसर्वादिसंख्यानां पूर्वनिपातः ॥ बहुव्रीहौ विशेषणं सप्तम्यन्तं क्तान्तं च पूर्वं प्रयोज्यम् । विशेषणं यथा । बहुधनः ॥ अस्तीति सत्तार्थेऽव्ययम् । अस्ति धनं यस्य सोऽस्तिधनः ॥ लम्बौ कर्णौ यस्य स लम्बकर्णः ॥ सप्तम्यन्तं यथा । कंठेकालः । वहेगड्डुः । सप्तम्या अलुग ॥ क्तान्तं यथा । कृतः कटो येन स कृतकटः ॥ सर्वादिः संख्या च यथा । बहुव्रीहौ सर्वादिगणः संख्या च पूर्वं प्रयोज्या । सर्वः प्रियो यस्य स सर्वप्रियः । द्वौ पुत्रौ यस्य स द्विपुत्रः ॥ त्रिपुत्रः ॥
( तत्त्वदी ० ) - बहुव्रीहि संज्ञाप्रयोजनं पूर्वनिपातनियममाह - बहुव्रीहाविति ॥ सर्वादिसंख्ययोस्तु संख्यायाः । त्र्यन्यः ॥ संख्ययोस्त्वल्पीयस्याः । द्वित्राः || बहुधन इति ॥ अतगुणसंविज्ञानोऽयम् || तस्यान्यपदार्थस्य गुणाः विशेषणानि समस्यमानपदार्थाः कार्यभाक्त्वेन संविज्ञायन्तेऽस्मिन्निति तद्गुणसंविज्ञानस्वदन्योऽतद्गुणसंविज्ञानः ॥ अस्तिधन इति ॥ अस्त तिबन्तप्रतिरूपकमव्ययम् । समासे भिन्नां शक्तिं मन्वानानां वैयाकरणानां मतं द्रढयितुं वाक्यसमासयोः शाब्दबोधे भेदः प्रदश्यते । तथाहि । प्राप्तमुदकं यमित्यस्य यत्कर्मकप्राप्तिकर्तृ उदकमिति बोधः ॥ प्राप्तोदक इत्यस्य उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इति बोधः ॥ एवं प्राप्तानन्दः ॥ ऊढो रथो येनेत्यस्य यदाश्रयवहनसाध्यदेशान्तरप्राप्त्याश्रयो रथ इति बोधः ॥ ऊढरथ इत्यस्य तु रथकर्मकवहनाश्रयोऽश्वः ॥ छिन्नः वृक्षो येनेत्यस्य यत्करणकद्वैधीभावाश्रयो वृक्षः। छिन्नवृक्ष इत्यस्य वृक्षाश्रयद्वैधीभावानुकूलव्यापाराश्रयः कुठारः ॥ उपहृतः पशुर्यस्मै इत्यस्य यदुद्देश्यकोप हरणाश्रयः पशुरिति । उपहृतपशुरित्यस्य तु पशुकर्मकोपहारोद्देश्यो रुद्रः । एवं दत्ताः सूर्यः ॥ उद्धृतमन्नं यस्मादित्यस्य यवदधिकोद्धरणाश्रयोन्नमिति बोधः ॥ उदूधृतान्न इत्यस्यान्नकर्मोद्धरणावधिः कटाहः ॥ पीतमम्बरं यस्येत्यस्य यत्संबन्धि पीताभिन्नमम्बरमित्यर्थः ॥ पीताम्बर इत्यस्य तु पीताभिन्नाम्बरः स्वामीत्यर्थः । एवं चित्रगुरित्यस्य ॥ वीराः पुरुषा यस्मिन्नित्यस्य यदाधारसत्ताश्रयवीराभिन्नाः पुरुषा इति बोधः ॥ वीरपुरुष इत्यस्य तु वीराभिन्नपुरुषसत्ताश्रयो ग्राम इति ॥
( क्वचिन्न ) चन्द्रशेखरः । पद्मनाभः । दन्तजातः । ऊरुभिन्नः ॥
( सुबोधिनी ) - क्वचिन्त्र ॥ बहुव्रीहौ क्वचिद्विशेषणसप्तम्यन्तत्तान्तानां पूर्वनिपातो न भवति ॥ चन्द्रः शेखरे यस्य स चन्द्रशेखरः ॥ पद्मं नाभौ यस्य स पद्मनाभः । टाडका इत्यनेनाप्रत्ययः ॥ दन्ता जाता यस्य स दन्दजातः ॥ ऊरू भिन्नौ यस्य स ऊरुभिन्नः ॥
( तत्त्वदी ० ) - क्वचिनेति ॥ ज्ञापक सिद्धस्यासार्वत्रिकत्वादिति भावः ॥
( क्वचिद्वा ) प्रियगुडः । गुडभियः । आहिताग्निः । अग्न्याहितः । अस्युद्यतः । उद्यतासिः ।