________________
(२६०)
सिद्धान्तचन्द्रिका। [समासप्र०] (तत्त्वदी० )-अत्र वौर्गुणादित्यतो वेत्यस्यानुवृत्तस्तस्य च व्यवस्थितत्वात्-क्वचित्रेति॥ एकापूपमित्यत्र तु दरिद्रस्यैकस्मिन्ननेकत्वारोपेणारोपितबहुत्वाश्रये समाहारे द्विगुः ॥ त्रिलोकनाथ इत्यादौ तु व्यवयवो लोकस्त्रिलोकस्तन्नाथ इत्येवं प्रकारः ॥ इति द्विगुः ॥
(बहुव्रीहिरन्यार्थ) अन्यपदार्थे योऽन्वयः स बहुव्रीहिसंज्ञः॥ (सुबोधिनी)-बहुव्रीहिरन्यार्थे ॥ बहुव्रीहिरित्यस्य पूर्वोच्चारणसामर्थ्यादन्यपदार्थाभावेऽपि बहुव्रीहिः कुत्रचिद्भवति ॥ यथा दो वा त्रयो वा वित्राः । पञ्च वा षट् वा पञ्चषाः॥ द्वौ वा दश वा द्विदशाः ॥ त्रयश्च दश वा त्रिदशाः ॥ डप्रत्ययान्तानेतानग्रे प्रवक्ष्यामि । पदानां समासविधानादन्यशब्देन पदं गृह्यते । अन्यस्य समस्यमानपदाद्भिन्नस्य पदस्यार्थः अन्यार्थस्तस्मिन् । अमादावित्यस्यानुवर्तनात् द्वितीयाद्यन्तं विशेषणं कर्तव्यम् । अत्र हि द्वितीयाद्यन्तपदेन प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मादिभिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् यद्यपि त्रिकपक्षे संख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थे प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं च द्वितीयान्ताद्यर्थे इति स्थितम् । तथा परिशेषात् समस्यमानं प्रथमान्तमेव लब्धम् । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समा• नाधिकरणानामिति च फलितम् । अनेकं प्रथमान्तमप्रथमार्थेऽन्यार्थे वर्तमानं समस्यते स बहुव्रीहिः । समस्यमानपदेतरपदार्थे समस्यमानपदानामन्वयो बहुव्रीहिरित्यर्थः॥ कण्ठेकाल इत्यादिस्तु बहुव्रीहौ विशेषणसप्तम्यन्तक्तान्तानामिति ज्ञापकाद्भवतीत्यर्थः । अतः सः द्विधा । समानाधिकरण एव व्यधिकरणस्तु कुत्रचित् सम्भवति समानाधिकरणे वैयधिकरण्यस्यान्याय्यत्वमित्युक्तत्वात् । किश्च बहुव्रीहितत्पु. रुषयोर्विषयविभागो यथा विज्ञायेत एतदर्थं सूत्रेऽन्यग्रहणं कृतम् । द्वितीयाद्यन्तमन्यपदार्थ क्रमेणोदाहरति । प्राप्तमुदकं यमिति समासोक्तत्वात् कर्मादौ प्रथमा। प्राप्तोदको ग्रामः । उढो रथो येन स ऊढरथोनड्वान् । उपहृतः पशुर्यस्मै स उपहृतपशू रुद्रः । उद्धत ओदनो यस्याः सा उद्धतौदना स्थाली । पीतम् अम्बरं यस्य स पीताम्बरः । वीरः पुरुषो यस्मिन् स वीरपुरुषो ग्राम इति ।।
(तत्त्वदी० )-बहुव्रीहिरन्यार्थे इति ॥ अन्यस्य समस्यमानपदाद्भिन्नस्य पदस्यार्थः अन्यार्थस्तस्मिन् । यद्वा । अन्यस्याः प्रथमाभिन्नाया विभक्तरर्थः अन्यार्थस्तस्मिन् । यद्वा तन्त्रा. दिना उभयमपि । तथा चाप्रथमार्थे बहुव्रीहिः ॥
( बहुव्रीहौ विशेषणसप्तम्यन्तक्तान्तसदिसंख्यानां पूर्वनिपातः) बहु धनं यस्य स बहुधनः । अस्तिधनः । लम्बकर्णः । कण्ठेकालः । वहेगडुः । कृतकटः । सर्वप्रियः द्विपुत्रः ॥