________________
[ समासप्र० ] टीकाद्वयोपेता।
(२५९) णात् द्विगोलुंगनपत्ये । द्विगोनिमित्तस्याऽनपत्यार्थस्य स्वरादेस्तद्धितस्य लुग्वक्तव्य इत्यर्थो बोध्यः। पञ्चकपालः॥
(तत्त्वदी०)-संख्यापूर्वी द्विगुरिति ॥ संख्या पूर्वा यस्य सः । संख्याशब्देन च तद्वाचकपदमुच्यते । तथा च संख्यावाचकपदयोर्योऽन्वयः स समाससंज्ञो द्विगुसंज्ञश्चेत्यर्थः ॥ समाहारेऽत ईबित्यस्य वक्ष्यमाणत्वात् समाहारे एवायमिष्यते तद्धितार्थे च । यत्तत्तरपदे वेत्युक्त्वा पञ्च गावो धनमस्येति विगृह्य पञ्चगवधन इति सिद्धये वासुदेवादिभिः पाणिनीयानुसारणोत्तरपदविषयत्वमप्यस्योक्तम् । तदिहानुपयोगीत्युपक्षितम् । तत्र तस्य स्वरार्थत्वात् स्वरस्यात्राव्युत्पादनात् । पञ्चानां गवां समाहारः पञ्चगवम् । टाडका इत्यः । एतद्धनमस्येति द्विगुगर्भबहुव्रीहिणा गतार्थत्वाच्च । अत्राहुः । द्वयोः पुत्रो द्विपुत्रः । द्वौ च दश च द्वादश । द्वौ पुत्रौ यस्य स द्विपुत्र इत्यादौ परत्वात्तत्पुरुषद्वन्द्वबहुव्रीहिसंज्ञा भवन्तीति । अत्रेदमवधेयम् । द्विगुसमासस्य समाहारतद्धितार्थयोरेव विधानादत्र तदभावादेवाप्राप्तौ किं परत्वानुधावनक्लेशेनेति विभाव्यम् ॥ पश्चकपाल इति ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः ॥ एवं चतुरो वेदानधीते चतुर्वेदः । अत्र संस्कृतादिष्वणादिः। तस्य लुग्बहुत्वे क्वचिदिति लुक् । यद्वा तद्धितार्थस्य द्विगुनैवोक्तत्वात्तद्धितार्थयोरप्रयोगः ॥
( समाहारेऽत ईप् द्विगुः ) समाहारेऽथ द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययः ॥ दशानां ग्रामाणां समाहारो दशयामी । पञ्चानि ॥
(सुबोधिनी)-समाहारेऽत ईयू द्विगुः ॥ समाहरणं समाहारः। भावे घञ् । समाहारे राशीकरणेऽर्थे द्विगुः समासो भवति । अदन्तात् द्विगोः स्त्रियामीप् ॥ दशानां ग्रामाणां समाहारा दशग्रामी। यस्येत्यलोपः ॥ ननु विप्रकीर्णानामेकत्र राशीकरणं समाहारार्थः। स च दशानां ग्रामाणां न संभवति । उच्यते । एकक्रियायां समन्वयात् बुद्धया राशीकरणस्य संभवात् । उदाहरणम् । पञ्च अग्नयः समाहृता इति पञ्चाग्नि ।।
(तत्त्वदी०)-समाहारेऽत ईप द्विगुरिति ॥ स औत्तराधर्य राशीकरणं समाहारः॥ दशग्रामीति ॥ ननु विप्रकीर्णानामेकत्र राशीकरणं समाहारार्थः । स च ग्रामाणां न संभतीति चेत् एकक्रियायां समन्वयाद् बुद्धया राशीकरणसंभवात् ॥
(कचिन ) पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ आबन्ताहा ॥ पञ्चखट्टी-पञ्चखटम् ॥
(सुबोधिनी -क्वचिन्न ॥ क्वचिददन्तात् द्विगोरीप् न स्यात् ॥ पञ्चानां पात्राणां समाहारः पञ्चपात्रम् ॥ चतुणी युगानां समाहारः चतुर्युगम् ॥ त्रयाणां भुवनानां समाहारः त्रिभुवनम् ॥ समासान्तानग्रे वक्ष्यामि ॥ इति द्विगुः ।।