________________
(२५८) सिद्धान्तचन्द्रिका। [समासप्र० ] नास्त्येकवद्भाव इत्यर्थः ॥ बदरामलके रथिकाश्वारोही प्लान्यग्रोधौ रुरुपृषतौ शुकबकौ यूकालिक्षे त्रीहियवौ कुशकाशाविति ॥ ऋता द्वन्दे पूर्वपदस्यात्वमिति वक्ष्यमाणेनात्वम् । 'उद्गातृनप्त' इत्यनेनार। होतापोतारौ ॥ 'पञ्च' इत्यनेनार् । मातापितरौ ॥ पुत्रे चेति वक्ष्यमाणेनात्वम् । पितापुत्रौ ॥ मातरपितरौ निपात्यौ । मातृशब्दस्यारङादेशो निपात्यते उदीचामाचार्याणां मते ॥ त्यदादीनि शिष्यन्ते सर्वैः शब्दै सहोक्तौ । सर्वैः शब्दैः सहोक्तानि त्यदादीनि शिष्यन्तेऽन्यानि पदानि लुप्यन्ते द्वन्दे इत्यर्थः॥
(समाहारे एकवद्भावः) ( सुबोधिनी)-समाहारे एकवद्भावः ॥ एकवद्भवनमित्येकवद्भावः ॥ ..
(एकत्वे द्विगुद्वन्द्वौ ) नपुंसकलिङ्गौ भवतः ॥ पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । पदकक्रमकम् । बदरामलकम् । शशकुशपलाशम् ॥
(सुबोधिनी )-एकत्वे द्विगुद्वन्द्वौ ॥ एकत्वे वर्तमानौ द्विगुद्वन्द्वौ नपुंसकलिङ्गौ भवतः ॥ एकत्वे किम् । पञ्चकपालाः पुरोडाशाः ॥ परवल्लिङ्गापवादोऽयं विधिः ॥ पाणी च पादों च तेषां समाहारः पाणिपादम् ॥ माद्देङ्गिकश्च पाणविकश्च तयोः समाहारो माईङ्गिकपाणविकम् ॥ रथिकाश्च अश्वारोहाश्च तेषां समाहारो रथिकाश्वारोहम् ॥ पदान्यधीते इति पदकः । क्रममधीते इति क्रमकः । कप्रत्ययः। पदकश्च क्रमकश्च तयोः समाहारः पदकक्रमकम् ॥ बदराणि च आमलकानि च तेषां समाहारो बदरामलकम् ॥ शशाश्च कुशाश्च पलाशाश्च तेषां समाहारः शशकुशपलाशम् ॥ अथ समासान्तप्रत्ययाः। चवगोन्तात् दषहान्ताच्च टः समाहारे। वाक्त्वचम्। वास्रजम् । शमीषदम् । वात्विषम् । छत्रोपानहम् ॥ समाहार किम् । प्रवृट्शरदौ । अहःपूर्वाद्रात्रिशब्दादः समाहारे।अहश्च रात्रिश्च तयोः समाहारोऽहोरात्रः। रात्राहाहान्ता इति पुंस्त्वम् ॥ इति द्वन्दः ॥
( संख्यापूर्वी द्विगुः ) तद्धितार्थे । पञ्चकपालः ॥ (सुबोधिनी)-संख्यापूर्वो द्विगुः ॥ संख्या पूर्वा यस्य स संख्यापूर्वः समासो द्विगुसंज्ञो भवति ॥ समाससंज्ञाफलं समासप्रत्यययोरिति । द्विगुसंज्ञाफलमेकत्वे द्विगुद्वन्द्वाविति ॥ द्वौ गावौ शब्दो यस्मिन्नित्यन्वर्थसंज्ञावलात् द्वयोरेव : द्विगसमाहारे द्विगावेकवद्भावः । तद्धितार्थे द्विगौ तु नैकवद्भावः । किंतु विशेषनिघ्नता ॥ पञ्चसु कपालेषु संस्कृतः पुरोडाशः । संस्कृतार्थेऽण् । लुग बहुत्वे क्वचिदित्यत्र क्वचिद्रह