________________
(२६४)
सिद्धान्तचन्द्रिका। [समासप्र०] ( उप्रत्ययान्तस्य न ) वामोरूभायः॥ (सुबोधिनी)-प्रत्ययान्तस्य न ॥ उक्तपुंस्कस्य उप्रत्ययान्तस्य स्त्रीलिंगस्य पुंवद्भावो न भवति समानाधिकरणे स्त्रीलिंगे परे ॥ वामोरूः भार्या यस्य स वामोरूभार्यः । संहतिशफलक्षणवामसहितसहादेरित्यूप्रत्ययः ।।
( पूरणार्थप्रत्ययान्ते प्रियादौ च न) कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । कल्याणीप्रियः ॥
(सुबोधिनी)-पूरणार्थप्रत्ययान्ते प्रियादौ च न ॥ उक्तपुंस्कस्य स्त्रीलिंगस्य पुंवद्भावो न भवति समानाधिकरणे स्त्रीलिंगे पूरणार्थप्रत्ययान्ते प्रियादौ च परे ॥ अलौकिकविग्रहे कल्याणी स् पञ्चमी स् इति । 'अन्यार्थे' इत्यनेन हस्वः । 'पूरणार्थे पश्चादेमंट्' इति मह्प्रत्ययः । पूरणार्थप्रत्ययान्ते इत्यनेन कल्याणी इत्यत्र पुंवद्भावो न । ततः समासान्तप्रत्ययः । यस्येतीकारलोपे ततः स्त्रियामाप् । कल्याणीपञ्चमाः ॥ प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया । षोडश प्रियादयः ॥ कल्याणी प्रिया यस्य स कल्याणीप्रियः॥
(तत्त्वदी०)-पुंवद्वेति || वाशब्दस्य व्यवस्थितत्वाश्रयणादप्रत्ययान्तस्य नेत्यादिकं दर्शयति कल्याणीपश्चमा इति ॥
(तरतमचरट्कल्पदेश्यदेशीयरूपपाशादौ पुंवत् ) दर्शनीयतरा । दर्शनीयतमा । दर्शनीयचरी । दर्शनीयपाशा ॥
(सुबोधिनी )-तरतमचरट्कल्पदेश्यदेशीयरूपपाशादौ पुंवत् ॥ एषु परंषु स्त्रियाः पुंवद्भवति ॥ अतिशयेन दर्शनीयेति दर्शनीयतरा । दर्शनीयतमा । तरतमेयस्विष्ठा इति तरतमौ ॥ भूतपूर्वा दर्शनीयेति दर्शनीयचरी । भूतपूर्व चरडिति चरट् । व्रित इतीप् ॥ ईषन्यूना दर्शनीयेति दर्शनीयकल्पा । दर्शनीयदेशीया । ईषदसमाप्तौ कल्पदेश्यदेशीया इति कल्पदेशीयौ ॥ प्रशस्ता दर्शनीयेति दर्शनीयरूपा । प्रशंसायां रूप इति रूपः ॥ कुत्सिता दर्शनीयेति दर्शनीयपाशा । कुत्सायां पाश इति पाशः ॥ आदिशब्दात् तस्जातीयधाथ्यादयो ज्ञेयाः । बहीषु बहुत्र बहुतः। पट्वीप्रकारवती पटुजातीया । प्रकारे जातीय इति जातीयप्रत्ययः॥ बहुधा । किंसर्वादिबहुभ्यः प्रकारे धा॥ अजाभ्यो हिता अजथ्या। अजाविभ्यां थ्य इति थ्यप्रत्ययः॥
(तत्त्वदी० )-दर्शनीयतरेति ॥ अतिशयेन दर्शनीयेति विग्रहः ॥ . . (शसि बह्वल्पार्थस्य पुंवत् ) बह्वीयो देहि बहुशः । अल्पशः ॥