________________
(२१२) सिद्धान्तचन्द्रिका। [विभक्त्याः ] तंडुलानित्यत्रानेन कर्मसंज्ञा । विवक्षायां तु तंडुलैरोदनं पचतीति ॥ दंड दंडग्रहणे चुरादिः । गर्गान् शतं दण्डयति सः । शतमिति मुख्यं कर्म । गर्गानित्यत्र स्वपादानत्वाविवक्षायामनेन कर्मसंज्ञा। विवक्षायां तु गर्गभ्यः शतं दण्डयतीति ॥ रुधिर आवरणे। व्रजमवरुणद्धि गां सः। गामिति मुख्यं कर्म व्रजमित्यत्र त्वधिकरणत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु व्रजेऽवरुणद्धि गामिति ॥ प्रच्छ ज्ञीप्सायाम् । माणवकं पन्थानं पृच्छति सः। पन्थानमिति मुख्यं कर्म । तादर्थ्याविवक्षायां माणवकमित्यत्रानेन कर्मसंज्ञा । विवक्षायां तु माणवकाय पन्थानं पृच्छति॥ चित्र चयने । वृक्षमवचिनोति फलानि सः। फलानीति मुख्यं कर्म वृक्षमित्यत्रापादानत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु वृक्षादवचिनोति फलानीति ॥ ब्रज व्यक्तायां वाचि। शासु अनुशिष्टौ । माणवकं धर्म ब्रूते शास्ति वा सः। धर्ममिति मुख्य कर्म । माणवकमित्यत्र तु तादाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु माणवकाय धमे ब्रूतेः शास्तीति वा ॥ जि जये। शतं जयति देवदत्तं सः। शतमिति मुख्यं कर्म । देवदत्तमित्यत्र त्वपादानत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु शतं जयात देवदत्तात्सः ॥ मन्थ विलोडने । सुधां क्षीरनिधि मथ्नाति हरिः सुधामिति मुख्यं कर्म । क्षीरनिधिमित्यत्राधिकरणत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु सुधां क्षीरनिधौ मथ्नाति ॥ मुष स्तये । देवदत्तं शतं मुष्णाति । शतमिति मुख्यं कर्म । देवदत्तमित्यत्रापादानत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु देवदत्ताच्छतं मुष्णाति सः॥ णी प्रापणे । हृञ् हरणे । कृष विलेखने । वह प्रापणे । ग्राममजां नयात सः। एवं हरतीत्यादि । अजामिति मुख्यं कर्म । ग्राममित्यत्र त्वधिकरणत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु ग्रामेऽजां नयति हरति कर्षति वहात वेति ॥ एतदर्थका धातवोऽन्येऽपि संज्ञेयाः । माणवकं धर्म भाषते अभिधत्ते वक्तीत्यादि ॥ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते। क्रोशमास्ते ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणांचधातूनामणौ यः कर्ता स णौ कर्म स्यात् । प्रत्यवसानं भक्षणम् । शब्दः कर्मकारकं येषां ते शब्दकर्मकाः । अनुत्पन्ने जिप्रत्यये शुद्धधातुवाच्या क्रियां प्रति यः कर्ता स जिप्रत्ययान्तधातुवाच्या क्रियां प्रति कर्मसंज्ञः स्यादित्यर्थः॥ यथा “शत्रूनगमयत्स्व वेदार्थं स्वानवेदयत् । आशयच्चामृत देवान् वेदमध्यापयद्विधिम् ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिगतिः ॥" गत्यर्थो यथा। शत्रवः स्वर्गमगच्छन् । तान् शत्रून् श्रीहरिः स्वर्गमगमयदिति । गमेरजिप्रत्ययान्तावस्थायां शत्रवः कर्तारस्ते ञ्यन्तावस्थायां कर्माभवन् । स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूला हरिकर्तृकश्चिरातीतो व्यापारः ॥ बुद्धयों यथा । स्वे