________________
[ विभक्त्यर्थाः ]
टीकाद्वयोपेता।
(२११)
बोधः ॥ चक्षुषा पश्यतीति चाक्षुषः पुमान् । कारकादित्यण । रूपं पश्यति रूपनिष्ठसाक्षात्कारोत्पत्त्यनुकूला एककर्तृका वर्तमाना दृशिक्रिया ॥ धर्मोऽस्त्यस्योत धर्मी। अस्त्यर्थे इन् । अतिशयेन धर्मीति इष्ठप्रत्ययः । धर्मिष्ठः पुमान् । राज्ञः कर्मेति राज्य प्राप्नोति । राज्यनिष्ठात्पत्त्यनुकूला एककर्तृका वर्तमाना प्राप्नोतिक्रिया॥ सोमं पिचतीति सोमपाः पुरुपः । सोमममृतवल्ली सुनोति खण्डयतीत्यर्थः । सोमनिष्ठखण्डनोत्पत्त्यनुकूला एककर्तृका वर्तमाना सुनोतिक्रियति । क्रियाप्रधानमाख्यातमिति सिद्धान्तात् क्रियाविशेष्यकः शाब्दबोधः कर्तव्यः॥ यास्कोऽप्याह । भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति । पश्य मृगो धावतीत्यादौ तु मृगकर्तृकगमनं दृशिक्रियां प्रति कर्म । प्रधान तु दृशिक्रियैव।उक्तं च। “सुवन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम् ॥ तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्॥१॥” इति॥ननु उक्त कर्मणि प्रथमेत्युक्तम् । तेन पक्वमोदनं भुते इत्यत्र द्वितीया न स्यात् । कृत्प्रत्ययेन कर्मण उक्तत्वात् । उच्यते। इह हि पचिभुजिनिरूपिते द्वे कर्मत्वशक्ती। तत्र प्रधानीभूतभुजिक्रियानिरूपितामनुक्तां शक्तिमादाय द्वितीयोत्पत्तिर्भवतीति । उक्तं च हरिणा । "प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक ॥ शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ १ ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।यदामुणे तदा तद्वदनुक्ताऽपि प्रतीयते ॥२॥" अत एव । पक्वौदनो भुज्यते देवदत्तेनेत्यत्र भुजिप्रत्ययेन उक्त कर्मणि प्रथमैव भवति । पचेरप्राधान्यात्। अथ प्रसङ्गात्याणिनिसूत्राणि लिख्यन्ते ॥ अकथितं च ॥ अपादानादिविशेषैरनुक्तं कारकं कर्मसंज्ञं स्यात् । “दुह्याचपचूदण्ड्रधिप्रच्छिचिबूशासुजिमथमुषाम् । कर्मयुक् स्यादकथितं तथा स्यात्रीहकृष्वहाम् ॥१॥" दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णी कर्मणा याज्यते तदेवाकथितं कर्म ज्ञेयम्।कर्मणा युज्यते इति कर्मयुक् । विवन्तम् । मुख्यकर्मणा सह क्रियया सम्बध्यमानमपादानादिविशेषेरकायितं यत्कारकं तत्कर्मसंज्ञकं भवतीत्यर्थः। एतेन दुहादीनां द्विकर्मकत्वमुक्तम् । दुह प्रपूरणे। गां दाग्धि पयः स इत्यत्र पयःकर्मकं गोसंबन्धि दोहनमर्थः। पयोऽत्र मुख्यं कर्म धातूपात्तफलाश्रयत्वात् । गौस्तु पयसो निमित्ततामात्रेणोपात्ता न त्ववधिभावनेत्यपादानसंज्ञाया अप्रवृत्तेरनन कर्मसंज्ञा । विवक्षायां त्वपादानादिसंज्ञा भवत्येव । विवक्षातः कारकविभक्तयो नाना भवन्तीति शाब्दिका इत्युक्तत्वात् । गोदौग्धि पयः स इति ॥ टुयाच याच्याम् । बलिं याचते वसुधां हरिः । अत्र प्रार्थनार्थस्य याचतेर्वसुधा मुख्यं कर्म । तेन कर्मणा युक्ता बलिः। तस्यापादानत्वाविवक्षायामनेन कर्मसंज्ञा। अपादानविवक्षायां तु बलेर्याचते वसुधामिति ॥ अविनीतं विनयं याचते सः। अविनीतं विनयायानुनयतीत्यर्थः।आविनीतामिति मुख्यं कर्म विनयस्य तादाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु अविनीतं विनयाय याचते ॥ डुपचष् पाके । तंडुलानोदनं पचति सः। औदन निर्वर्तयतीत्यर्थः । ओदनामिति मुख्यं कर्म । करणत्वाविवक्षायां