________________
[विभक्त्यर्थाः ] टीकाद्वयोपेता। स्वकीयाः वेदार्थमविदुस्तान् स्वान् श्रीहरिदार्थमवेदयत् । विदेरञ्यन्तावस्थायां स्वे कर्तारस्ते ज्यन्तावस्थायां कर्माभवन् ॥ प्रत्यवसानार्था यथा । देवाः अमृतमाश्नन् । तान्देवान् श्रीहरिरमृतमाशयत् । अशरूयन्तावस्थायां देवाः कर्तारस्ते ज्यन्तावस्थायां कर्माभवन् ॥ शब्दकर्मको यथा विधिर्वेदमध्यैत । तं ब्रह्माणं श्रीहरिर्वेदमध्यापयदपाठयदित्यर्थः । अञ्यन्तावस्थायां विधिः कर्ता स ज्यन्तावस्थायां कर्माभवत् ॥ अकर्मका यथा । सलिले जले पृथ्वी आस्ते तां पृथ्वी श्रीहरिः सलिले आसयत् स्थापयति स्म । आसेरञ्यन्तावस्थायां पृथ्वी की सा ज्यन्तावस्थायां कर्माभवत् स श्रीहरिमें मम गतिः स्यादित्यन्धयः ।। इति द्वितीया ॥
(तत्त्वदी०)-शेषाः कार्ये इत्यादि ॥ शिष्यन्त इति शेषाः । कर्मणि घञ् । उक्तायाः प्रथमाया अन्याः षड्विभक्तयः शेषाः द्वितीयाद्या इति यावत् । कार्यादयोऽर्थाश्च षड्भिः पदनिर्दिष्टास्तेषां यथाक्रमं प्रवृत्तिः। तत्र प्रथमनिर्दिष्टमाह-कार्ये इति ॥ क्रियते कर्जा प्रवय॑ते । यष्टा स्वव्यापारेण यौगं स्वर्ग च साधयति । तदाश्रये च द्वितीया । तत्संबन्धात् द्वितीयावाच्यस्त्वाश्रय एव न तु फलं तस्य धातुनैव लाभात् । अनन्यलभ्यस्य शब्दार्थत्वात् । वाच्यतावच्छेदकत्वाश्रयत्वमत एव नाश्रयत्वं वाच्यम् । आश्रयत्वस्य वाच्यतावच्छेदकत्वे गौरवात् । तच्च कर्म द्विविधम् । ईप्सितमनीत्सितं च । तत्रेप्सितं त्रिविधम् । निर्वयं विकार्य प्राप्यं च । अनीप्सितं तु चतुर्विधम् । औदासीन्येन प्राप्यं द्वेष्यं संज्ञान्तरैरनाख्यातम् अन्यपूर्वकं चेति । तत्र निर्वयं यथा । पूर्वमनुत्पन्नमेवोत्पद्यते सदवस्थात्वात्पकटीभवति । ततः विकार्य तु द्विविधम् । प्रकृत्युच्छेदसंभूतं गुणान्तरोत्पत्त्या वा । कटं करोतीत्यादि । कटं पूर्वमसत् तमुत्पादयतीत्यर्थः ।। रूपं पश्यतीति प्राप्यम् । चाक्षुष इति । प्रशस्तचक्षुरस्यास्तीति चाक्षुषः । प्रशंसायां मत्वर्थीयोऽण् । राज्यं प्राप्नोतीति संस्कार्य पृथगिच्छतीति संस्कार्यम् कर्म । सोमं सुनोतीति गुणान्तरोत्पत्त्या विकार्यम् । अन्यदप्युदाहियते । प्रकृत्युच्छेदसंभूतविकार्य यथा। प्रकृतेः प्रकृतिभूतस्यात्मनः उच्छेदसंभूतम् । तद्यथा । काष्ठं भस्म करोति । औदासीन्यं तु तृणं स्पृशति । द्वेष्यं तु विषं भुङ्क्ते । संज्ञान्तरैरनाख्यातं यथा । गां दोग्धि पयः। अन्यपूर्वकं यथा । क्रूरममिक्रुध्यति । अक्षान् दीव्यति । ईप्सितानीप्सितयोः शाब्दबोधस्स्वेक एव । ईप्सितत्वादेस्तत्र भानाभावात् । कटं करोति कारूक इत्यस्य कटनिष्ठोत्सत्यनुकूल एककारूकाभिन्नाश्रयको वर्तमानो व्यापारः॥ विषं भुङ्क्ते इत्यत्र गलादधोदेशसंयोगस्यानुकूल एकाश्रयको व्यापार इत्यादावीप्सितानीप्सितयोरभानादेकरूप एव शाब्दबोधः। एवं च कर्मशब्दस्य यौगिकत्वादेव सिद्धे कर्मसंज्ञाविधायकानि नानासूत्राणि न कृतानि । कर्मणि द्वितीयेश्यस्य फलनिरूपिताश्रये सर्वत्र द्वितीयायाः सिद्धत्वात् । असत्कार्यवादे तु निर्वय॑स्य कर्मकारकत्वाप्राप्तिः । तस्यासत्त्वादेव फलाश्रयत्वानुपपत्तेः । क्रियाजनकत्वाभावात्कारकत्वानुपपत्तेश्च । क्रियां कुर्वत् हि कारकमिति सिद्धान्तत्वात् ॥ इति द्वितीया ॥