________________
(२४) सिद्धान्तचन्द्रिका। [स्वरसंधिः ]
(तत्त्वदी०)-गोति।गोशब्दादकारस्य लोपो वेत्यर्थः।।तेन गोऽजिनमित्पयत्र रूपत्रयम्।। .. (सवणे दीर्घः सह) समानस्य सवर्णे परे सह दीर्घो भवति ॥ दैत्यारिः। श्रद्धाऽत्र । दधीह । भानूदयः । श्रीशः । होतृकारः होतृकारः ॥ "सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥"
(सुबोधिनी )-सवर्णे दीर्घः सह॥सवर्णशब्दस्य च ससंबन्धिकत्वात्सवर्णादिति लभ्यते । वर्णशब्दोऽक्षरेऽस्ति ।"वर्णो द्विजादौ शुक्लादौ स्तुतौवर्ण तुवाक्षरे॥” इत्याभिधानात् ॥ सशब्देन तु समानशब्दो लक्ष्यते । नामैकदेशेनापि नामग्रहणस्य संमतत्वात् सगोत्रः सनामेत्यादाविव समानशब्दस्यादेशः स इति वा । ततः समानं च तद्वर्ण च सवर्ण तस्मात् । सवर्णसंज्ञकस्य सवर्णस्यात्र ग्रहणं नास्ति किंतु यौगिकस्य ग्रहणं तेन समानसंज्ञात्मको वर्णःसमानशब्देन ग्राह्यो न तु तुल्यार्थकः ॥समानसंज्ञकाद्वर्णात्सवण परे सह दीघों भवतीत्यर्थः ॥ सहग्रहणं तूभयोः स्थानित्वलाभार्थं कृतम् । तच्च नामी इति यावदनुवर्तत ॥ ननु विना सहेत्यनेन सहशब्दयोगे तृतीया किं न स्यात्।उच्यते। उपपदविभक्तेःकारकविभक्तिर्बलीयसीत्युक्तत्वात् सहशब्दयोगे विधीयमाना तृतीयोपपदविभक्तिःसवणे इति सप्तमी तुभावे सामीपिकाधारे वा विहिता कारकविभक्तिःक्रियान्वयित्वात् क्रियापदमध्याहृतं भवति नायोगे ।दीर्घ इत्यत्रान्योक्ते इत्यनेन प्रथमाऽपि कारकविभक्तिः । सवर्णे किम् ॥ ध्यत्र मध्वेतत् । दधीह भानूदयाश्रीशः वधूपमेत्यादौ उकारादौ वकारादिप्राप्तिः सवर्णे दोघं इत्यस्य प्राप्तिश्चास्ति तत्र किं भवतीत्यत आह । सामान्यशास्त्रतोनूनविशेषो बलवान् भवेत् ॥ नूनमित्यव्ययं निश्चये विचारे वा। बहुव्यापकं शास्त्र सामान्यशास्त्रम् । शासनाच्छास्त्रं लक्षणं सूत्रमित्यर्थः॥ तस्मादल्पव्यापकोऽपवादो भवतीत्यर्थः। यथा रामोऽत्रेत्यादौ लोपशोऽपवाद उत्वम्॥ सर्वस्मै इत्यादौ डेरगित्यस्यापवादः स्मट्।कार्येऽणित्युत्सर्गः आतो ड इत्यपवादः॥ नुडागम इत्युत्सगः सुडागम इत्यपवादः ॥ एवं यत्ववत्वरत्वादिविधिरुत्सर्गः दीर्घविधिरपवादः ॥ पुनः परिहारान्तरमाह ॥ परेण पूर्ववाधौ वा ॥ वेति पक्षान्तरे । सूत्रपाठे परेण परपठितेन विधिना पूर्वबाधः क्रियते पूर्वपठितो विधिर्वाध्यत इत्यर्थः ॥ इदं परिहारान्तरं च नित्यान्तरङ्गापवादव्यतिरिक्तस्थले एव द्रष्टव्यम् । तत्र नित्यं बाधकमावश्यकत्वात ॥ अन्तरङ्गं तु बाधकं लाघवात् । अपवादस्तु बाधको भवति वचनप्रामाण्यात् । नुमागम इआदेशयोः यथा प्रधीनीत्यादौ परेण नु स्वौ वेति यत्वं बाध्यते तथा दीर्घविधिना यत्वादिविधिर्वाध्यते ॥ ननु वारीणां स्त्रीणामित्यादौ परत्वान्नुमियोः सतोर्नुडागमो न स्यादित्यत आह ॥ प्रायशो दृश्यतामिह ॥ प्रायश इत्यव्ययं बाहुल्येऽर्थे । इह शास्त्रे पूर्वोक्तो न्यायो
१ सहयोगाभावान्नेत्यर्थः ।