________________
[ स्वरसंधिः] टीकाद्वयोपेता।
(२३) (सुबोधिनी)-य्वोलापशू वा पदान्ते॥य च व च य्वौ तयोर्योः।पदस्यान्तः पदान्तः अन्तशब्दोऽवयववाची । पदं तु विभक्त्यन्तमेव गृह्यते । पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेः।पूर्वसूत्रेभ्योऽय् अव् आय् आव् इत्यनुवर्तते । अनुवृत्तं च पष्ठया विपरिणम्यते । पदान्ते स्थितानामयादीनां बोलोपैश् वा स्यात् ॥ दाम उदरे यस्य स दामोदरः । राज्ञोऽश्वः राजाश्वः । नानो नोलोपशिति लोपशि कृतेऽपि पुनःसन्धिर्जातः । समासे नलोपशि तु भवतीत्युक्तत्वात् ॥ पदान्ते किम् । नायकः । पावकः।। अयादीनां किम् । दध्यानय । मध्वत्र ॥ ननु वृक्षं वाति वेति वा वृक्षवाः, वृक्षवीः । वा गतिगन्धनयोः। वी गतिव्याप्तिप्रजननादौ । आभ्यां विप्, वृक्षवां वृक्षव्यं वा करोतीति जिर्डिकरणे इति जिप्रत्यये टिलोपे च सति स धातुरिति धातुत्वम् । ततः विपि त्रिलोपे च वृक्षवू इति । वृक्षव् इहेत्यादाववरूपस्य सत्त्वात् वकारस्य लोपश् कस्मान। उच्यते । अव इति रूपस्य लाक्षणिकत्वान्न । अयादीनांरूपमव्युत्पन्नमेव॥ . (तत्त्वदी०)-य्वोर्लोपशू वेति॥य् च व् च य्वौ तयोः। अनन्तरोक्तत्वादयादीनामेव यकारवकारौ गृह्यते इत्याशयेनाह ॥ अयादीनामिति ॥ अयादयश्च आय्अय् अव् आव् । पदस्यान्तः पदान्तः । अन्तशब्दोऽवयववाची। पदं च विभक्त्यन्तमेव । अयादश्चैतत्सूत्रभाषिता एव गृह्यन्ते । तेन वृक्ष वातीति वृक्षवाः तं करोति जिडित्करणे इति 'जिप्रत्यये' टिलोपे च सति स धातुः' इति धातुत्वम् ततः विपि जिलोपे च वृक्षविति भवति । वृक्षविहेत्यत्र लोपो नापदान्ते किम् नयनम् ॥ श्वादेरिति ॥ श्वा आदिर्यस्य सः श्वादिः तस्य । बहुव्रीहिरन्यार्थ इति समासे 'नाम्नो नो लोपशधौ' इति नलोपशि सवर्णे दीर्घः ॥
(एदोतोऽतः) पदान्ते स्थितादेकारादोकाराच्च परस्याकारस्य लोपश् भवति ॥ तेऽत्र । पटोऽत्र ॥
(सुबोधिनी )-एदोतोऽतः ॥ अयवोरपवादः । एच ओच्च तयोः समाहारःएदोत् तस्मात् एदोतः । तपरकरणं स्पष्टार्थम्।प्लुतव्यावृत्तिः प्लुत इत्यादिना बोध्यः । तेन आगच्छाग्ने ३ अत्र तिष्ठ । एहि विष्णोः अत्र हविर्भुङ्क्वेत्यादौ न सन्धिःाप्लुतस्य निषेधादिति ॥ पदान्ते एदोतः परस्यातो लोपश् स्यात् ॥ पदान्ते किम् । नमनम् ॥ भवनम् ॥ एदोतः किम् । तस्मै अन्नम् । तौ अत्र ॥ अतः किम् । ते आगताः ॥
(तत्त्वदी०)-एदोतोऽत इति॥ एच्च ओच्च एदोत् तस्मात् । तपरकरणं सुखमुखोच्चारणार्थम् ॥ अत इति तपकरणं दीर्घादिनिवृत्त्यर्थम् । तेन हरे आगच्छेत्यादौ लोपो न ॥ तेऽत्रेति ॥ अत्रापवादत्वाल्लोप एव न त्वयादयः ॥
(गोर्वा ) तेन गोअजिनम्-गोऽजिनम्-गवाजिनम् ॥ (सुबोधिनी)-गोर्वा ॥ पदान्ते ओदन्तात् गोशब्दात् परस्यातो लोपश् पक्षे प्रकृतिभावश्च ॥ ओदन्तात्किम् । चित्रग्वग्रम् ॥ पदान्ते किम् । गोः ॥ प्रकृतिभावे गो अजिनम् ॥ अल्लोपे गोऽजिनम् ॥ गोरग्वेत्यगागमे गवाजिनम् ॥