________________
[ स्वरसंधिः ] टीकाद्वयोपेता।
(२५) बाहुल्येन भवद्भिदृश्यतां ज्ञायतां न सर्वत्र । दृशिज्ञानार्थः । 'दृशिर्ज्ञानेक्षिण दर्शनेइत्युक्तत्वात् । कर्मणि लोट् । प्रायश इति कथनात् क्वचित्पूर्वेणापि परविधिर्बाध्यते इति दृश्यताम्।यथास्त्रीणाम् वारीणामित्यादावियनुमौ परावपि पूर्वेण नुटा बाध्येते॥
(तत्त्वदी०)-सवणे दीर्घःसहेति ॥ सवर्णशब्दस्य ससंबन्धिकत्वात्सवर्णस्यति लब्धम् । सवर्णसंज्ञा च समानस्यैव नान्यस्येति स्पष्टार्थम् ॥ समानस्येति ॥ सहयोगे तृतीया तु न उपपदविभक्तित्वात् । सप्तम्यास्तु सामीपिकाधारे विहितत्वात्कारकविभक्तित्वम् ॥ दीर्घ इति प्रथमायाश्चाध्याहृतभवतिना योगादन्योक्त इत्यनेन विहितत्वात्कारकविभक्तित्वम्॥ उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति वचनात् ॥ समानस्येति किम् । हरये ॥ श्रद्धाऽत्रैति॥ पर्जन्यवल्लक्षणप्रवृत्तिरिति दीर्घस्यापि दीर्घः ॥ ' यत्तु अदी? दीर्घतां याति' इत्यादि कलापानुसारिभिरुक्तं तद्भाष्यविरोधादुपेक्ष्यम् । 'अलोऽलि दीर्घः' इत्येव सुवचमम् ॥ सामान्यशास्त्रत इत्यादि ॥ बहुव्यापकं सामान्यम् । अल्पव्यापको विशेषः ॥
(हलादेरीषादौ टेलीपो वक्तव्यः) हलीषा।लागलीषा।मनीषा।अयोम्। शकन्धुः । कर्कन्धुः । कुलटा । पटत् इति पटिति ॥ ( सारङ्गः पशुपक्षिणोः)-साराङ्गोऽन्यः॥ (सीमन्तः केशवेशे )-सीमान्तोऽन्यः ॥
(सुबोधिनी)-हलादेरीषादौ टेर्लोपो वक्तव्यः॥हलादेष्टेर्लोपः स्यादीषादौ परे ॥ 'ईष उञ्छे' 'ईष गत्यादिषु च।आभ्यां गुरोर्हसादित्यङ्प्रत्यये ईषाशब्दः। हलस्य ईषा हलीषा । लाङ्गलदण्डः। लाङ्गलस्य ईषा लागलीषा॥मनसः ईषा मनीषा ॥ शकानां देशविशेषाणामन्धुः कूपः शकन्धुः॥ कर्काणां राज्ञामन्धुः कर्कन्धुः ॥ अटतीत्यया । पचायप्रत्ययः । कुलस्याटा कुलट।। यदा तु कुलमटतीति विगृह्येत तदा कार्येऽणित्यणप्रत्यये ईपि च कुलटीति स्यात् ॥ अन्यस्मिन् अर्थे साराणि प्रधानान्यङ्कानि यस्य स साशंगः । टिलोपो न ॥ केशवेशे केशरचनायामर्थे टिलोपो भवति । सीमन्तः । अन्यस्मिन् अर्थे सीमाया अन्तः। सवर्णे दीर्घः। सीनो अन्तः सीमान्त इति वा । नानो नो लोपशिति नलोपे कृते दीर्घोत्र । 'सीमसीमे स्त्रियामुभे' इत्यमरः ॥
( तत्त्वदी०)-हलादेरिति ॥ हलादेरीषादेव आकृतिगणत्वं बोध्यम् । तेन पतञ्जलिमार्तण्ड इत्यादि सिद्धम् ॥ हलीषेति ॥ 'ईषा लाङ्गलदण्डः स्यात्' इत्यमरः ॥ मनीषेति ॥ 'बुद्धिर्मनीषा धिषणा' इत्यपि च ॥ शकन्धुरिति ॥ शकानां दे विशेषाणामन्धुः कूप इत्यर्थः ॥ सीमान्तोऽन्य इति ॥ सीम्नः अन्तः सीमान्तः ॥
(ओत्वोष्ठयोः समासे वा) (ओ औ औ) अवर्णादोकारे औकारे च परे सह औकारो भवति ॥ बिम्बोष्ठः-बिम्बौष्ठः । स्थूलोतुःस्थूलौतुः । समासे इति किम् । तवौष्ठः ॥