________________
[ द्विरुक्तप्र० ] टीकाद्वयोपेता। ___(३४९) रतः । अधः। अधस्तात् । दक्षिणतः ॥ केचिद्दिकशब्दमात्रादेनप्रत्ययमाहुः । पूर्वेण ग्रामम् । अपरेण ग्रामम् । दक्षिणशब्दादाप्रत्ययः सप्तमीप्रथमाविभक्त्यर्थे । दक्षिस्यां दक्षिणा वेति दक्षिणा । दक्षिणोत्तराभ्यां दूरेऽर्थे आआहिप्रत्ययौ । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि । दक्षिणा । उत्तरस्यां दिशि दूरे इति उत्तराहि । उत्तरा। अव्ययत्वाद्विभक्तेलृक् सर्वत्र ॥ इति सुबोधिन्यां तद्धिताः॥ (तत्त्वदी० )-पौंस्न इति ॥ संयोगान्तस्येति सलोपः ॥ इति तद्धितप्रकरणम् ॥
अथ द्विरुक्तप्रक्रिया। (वीप्सायां पदं द्विः) वृक्षं वृक्षं सिञ्चति। ग्रामो ग्रामो रमणीयः॥ . (सुबोधिनी )-अथ सर्व पदं द्विरुच्चारयेदित्यधिकारोऽयम् ॥ वीप्सायां पदं द्विः॥ व्याप्तुमिच्छा वीप्सा व्याप्तिप्रतिपिपादयिषेति यावत् । व्याप्तिः कात्न्य तच्चाधिकारकम् । सर्वे ब्राह्मणा आमन्त्रिता इत्यादौ यथा । नहि जगतीतले विद्यमाना ब्राह्मणाः सर्वेऽपि केनचिदामन्त्रयितुं शक्यन्ते इति स्वग्रामस्थस्वजातीयब्राह्मणानां संकोचो यद्यभ्युपेयते तमुत्रापि सकलवृक्षसेचनसामर्थ्य कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कात्स्न्यं वृक्षं वृक्षं सिञ्चतीत्यादौ गम्यते इत्यभ्युपेयम् । यत्र तु संकोचे कारणं नास्ति तत्रासंकोच इष्ट एव । यथा जातो जातो निधनमुपैतीति ॥ तस्यां वीप्सायां वाच्यायामेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते इत्यर्थः । वृक्षं वृक्षमित्यत्र प्रत्येकनिष्ठमेकत्वमेव हि प्रतिभासतेऽतो न बहुवचनप्रसङ्गः॥
(तत्त्वदी०)-वीप्सायामिति ॥ व्याप्तुमिच्छा वीप्सा व्याप्तिप्रतिपिपादायषेति यावत् । व्याप्तिश्च कात्य॑म् ॥ वृक्षं वृक्षं सिञ्चतीति ॥ सेकक्रियायाः सकलवृक्षे अन्वयः। बहुवचनप्रसंगस्तु बहूनां भानेऽपि बहुत्वसंख्याया अभानादेव न । प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासते ॥
(परेर्वर्जने वा द्वित्वम् ) परि परि वङ्गेभ्यो वृष्टो देवः । परि वङ्गत्या दृष्टो देवः । वङ्गान्परिहत्येत्यर्थः ॥
(सुबोधिनी)-परेर्वर्जने वा द्वित्वम् ॥ वर्जनार्थवाचिनः परेर्वा द्वित्वं स्यात् ॥ परि परि वङ्गेभ्य इत्यत्र परियोगे पञ्चमी । वाग्रहणात्परि हरेः संसार इति ॥ .