________________
[तद्धितप्र० ] टीकाद्वयोपेता।
(३३७) (सुबोधिनी )-तरतमेयस्विष्ठाः प्रकर्षे ॥ तरश्च तमश्च ईयसुश्च इष्ठश्च ते तरतमेयस्विष्ठाः । प्रकर्ष इति प्रकृत्यर्थे विशेषणम् । प्रकर्षणं प्रकर्षः । प्रकर्षश्च नाधिक्यं कित्वभिभवो मतः। यद्यपि कृषिः केवलो विलेखने तथापि प्रपूर्वोऽभिभवे. ऽर्थे । यद्यपि द्रव्यस्य स्वतः प्रकर्षों न तथापि गुणप्रकर्षात् प्रकर्षो भवति । उक्तं च। "द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः । भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ॥ १॥" धर्मयोगं विना व्यपदेष्टुमशक्यस्य द्रव्यस्य व्यपदेशाय यो भेदको गुण उपादीयते प्रत्ययेन तस्य प्रकर्षोऽभिधीयते । गुणक्रियाजातिसंज्ञाभेदेन चतुष्टयी शब्दानां प्रवृत्तिः । तत्र गुणक्रिययोः प्रवृत्तिनिमित्तयोस्तत्प्रकर्षे प्रत्ययः । जातिशब्देभ्यस्तु जातेः सर्वत्रैकरूपत्वेन प्रकर्षाभावात्तत्सहचरितादेवाह । दोहादयो धर्मास्तप्रकर्षे प्रत्ययः। संज्ञाशब्देषु प्रकर्षों नास्ति । शब्दस्वरूपस्यैव प्रवृत्तिनिमित्तत्वात् । तस्य च सर्वत्र तुल्यत्वात् । गुणशब्दो यथा । यस्य सामान्यतः श्वेतो गुणः स शुक्लः । यस्य तदपेक्षयाधिकः स शुक्लतरः। यस्य ताभ्यामप्यधिकः स शुक्लतमः।। यः किंचिजानाति स पटुः । ततोऽधिकं जानाति स पटुतरः । ततोऽप्यधिकं स पटुतमः ॥ क्रियाशब्दो यथा । यो विलम्बेन पचति स पाचकः। यस्तु ततः किंचि. च्छीघ्रं पचति म पाचकतरः ! यस्त्वतिशीघ्र पचति स पाचकतमः ॥ जातिशब्दो यथा। गौरयं हलं वहति । गोतरोऽयं हलं शकटं च वहति । गोतमोऽयं तौ गोणी च वहति ॥ इष्ठेयसुप्रत्ययौ गुणवचनादेव । संख्यापरिमाणप्रमाणोन्मानवाचिभ्यो न तरादयः । संख्या एकादि । परिमाणं कुडवद्रोणादि । प्रमाणं हस्तवितस्त्यादि । उन्मानं तुलादि । उक्तं च "ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः ॥१॥" __ (तत्त्वदी )-तरतमेयस्विष्ठा इति ॥ तरश्च तमश्च ईयसुश्च इष्ठश्च ते । प्रकर्षण प्रकर्षः । प्रकर्षश्चात्र नाधिक्यं किंत्वभिभको मतः । यद्यपि केवलः कृषिविलेखनार्थस्तथाप्युपसर्गवशादभिभवार्थोऽपि । प्रकर्षस्य सजातीयप्रतियोगिकत्वात्संज्ञाजातिवाचकयोस्तदभावान्न तरादयः । तथा संख्यापरिमाणप्रमाणोन्मानवाचिभ्यो न । उक्तं च । "ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः॥" ऊर्ध्वमानं तुलादिः॥ परिमाणं द्रोणादिः॥ प्रमाणं हस्तवितस्त्यादिः ॥ संख्या एको द्वावित्यादिः । यद्यपि सामान्येन तरादिविधानं तथापि एकस्य द्वयोश्च प्रकर्षे तरेयस । बहूनां तमेष्ठाविति विवेकः । पाचकादिभ्यस्तु ईयस्विष्ठौ नानभिधानात् ॥
(ईयस्विष्ठौ डितौ ) अतिशयन लघुर्लघीयान् । लघिष्ठः ॥ (सुबोधिनी )-ईयस्विष्ठौ डितौ ॥ एतौ डिसंज्ञको स्तः ॥ अतिशयन लघुः
२२