________________
[ विभक्त्यर्थाः ] टीकाद्वयोपेता। (२२३)
( उपान्वध्यापर्वस्य वसः) उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः॥
(सुबोधिनी )-उपान्वध्यापूर्वस्य वसः ॥ उपादिपूर्वस्य वसेराधारः कर्मसंज्ञकः स्यात् ॥ लुग्विकरणाऽलुविकरणयोरलुग्विकरणस्यैव ग्रहणमिति न्यायात् 'वस निवासे' इति भौवादिक एव गृह्यते न तु 'वस आच्छादने' इत्यादादिकः॥
(तत्त्वदी० )-उपवसतीत्यादि ॥ वैकुण्ठाभिन्नाश्रयको वासजन्यो यः संयोगस्तदनुकूल एकहर्यभिन्नाश्रयको वर्तमानो व्यपारः ॥
(नाभुक्त्यर्थस्य ) वने उपसति । इत्यादि ॥ (सुबोधिनी )-नाभुक्त्यर्थस्य ॥ भोजननिवृत्तिवाचकस्य वसेराधारः कर्मसंज्ञो न ॥ उपवसति उपवास करोतीत्यर्थः ॥ इति पुनरपि द्वितीया ॥
(सहादियोगे तृतीया) सह शिष्येणागतो गुरुः ॥ एवं साकंसाईसमंयोगेऽपि ॥
(सुबोधिनी)-सहादियोगे तृतीया ॥ सहार्थकशब्दस्य योगे तृतीया विभक्तिर्भवति ॥ गुरुः शिष्येण सहागतः । गुरोरत्रागमनक्रियया शाब्दः संबन्धः शिष्यस्य त्वार्थः संबन्धः। अत एव शिष्यस्याप्राधान्यम् । षष्ठया बाधिकेयम् ॥ ननु सम्बन्धे तृतीया । सम्बन्धश्चोभयनिष्ठोऽत उभाभ्यां तृतीया स्यात् । मैवं वद । यस्माषष्ठी प्राप्ता तस्मादेव तृतीया । षष्ठी चाप्रधानाद्विहिता । ततस्तृतीयाऽप्यप्रधानादेव भवति । उत्सर्गसमानदेशा अपवादा भवन्तीत्युक्तत्वात् । सहार्थविवक्षायां विनापि सहार्थप्रयोगं तृतीया भवति । त्वमहं सिनेत्यादिनिर्देशात् । एवं साकं साई समं अमा पृथक् विना नाना इत्यादियोगेऽपि तृतीया ॥
( तत्त्वदी० )-सहादियोग इति ॥ शिष्येण सहेति ॥ गुरौ तु न तृतीया तस्य प्रधानत्वात् । अथाप्रधाने तृतीयेति चेत् कथं गुरुणा सहागतः शिष्य इत्यत्र सा । गुरोः प्रधानत्वादिति चेत् सत्यम् । न ह्यत्र लौकिकं प्राधान्य किन्तु शाब्दम् । तच्च शब्दप्रतिपादितक्रियात्वम् । अर्थलब्धक्रियात्वमप्राधान्यम् । तच्च यदा यस्य तदा तस्यैव प्राधान्याप्राधान्ये ॥ शिष्येण सहागतो गुरुरित्यत्रागमने शिष्यस्यापि कर्तृवमन्यथा साहित्यं न स्यात् इति कर्तसाधनयोरित्येव तृतीया किमनेनेति चेत्सत्यम् । शिष्येण सहागमनं गुरोरित्यत्र शिष्यादपि कर्तृकार्ययोरिति षष्ठी प्राप्ता तदपवादार्थमिदमिति गृहाण । सहार्थविवक्षायां सहादिप्रयोगाभावेऽपि तृतीया सिनेत्यादिनिर्देशात् ॥