SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ( २२२ ) सिद्धान्तचन्द्रिका | [ विभक्त्यर्थाः ] नदी । निरन्तरा कोशस्य वक्रा नदी || लक्षणेत्थंभूताख्यान भागवीप्सार्थकानां प्रतिपर्यनूनां योगे द्वितीया ॥ लक्षणे यथा । वृक्षं प्रति पर्यनु वा विद्योतते विद्युत् ॥ लक्ष्यलक्षणभावसंबन्धं प्रत्यादयो द्योतयन्त्यत्र ॥ इत्थंभूताख्याने | भक्तो विष्णुं प्रति पर्यनु वा । विष्णोर्भक्तेश्च विषयविषयिभावसंवन्धं प्रत्यादयो द्योतयन्त्यत्र । भक्तः कृष्णस्य कंचित्प्रकारं भक्तत्वं प्राप्त इत्यर्थः । भागे । लक्ष्मीः कृष्णं प्रति पर्यनु वा । लक्ष्मीरूपस्य भागस्य कृष्णेन सह स्वस्वामिसंबन्धः तं प्रत्यादयों द्योतयन्त्यत्र । कृष्णस्य भाग इत्यर्थः ॥ वीप्सायाम् । वृक्षं प्रति पर्यनु वा वृक्षं वृक्षमित्यर्थः ॥ लक्षणेत्थंभूताख्यानवीप्सार्थकाभियोगे द्वितीया ॥ लक्षणे यथा । हरिमभिवर्तते मुक्तिः । हरिं लक्षयित्वेत्यर्थः । लक्ष्यलक्षणभावसंवन्धोऽत्र । इत्थंभूताख्याने । भक्तो हरिमभि । विषयविषयिभावसंबन्धोऽत्र । हरेः कंचित्मकारं भक्तत्वं प्राप्त इत्यर्थः ॥ वीप्सायाम् । देवमभिनमति । देवं देवमित्पर्थः। पृथग्नानादक्षिणेन उत्तरेण इत्यादियोगेऽपि द्वितीया ॥ ( तत्त्वदी ० ) - कालाध्वनोरिति ॥ कालश्च अध्वा च कालाध्वनौ तयोः । निर्गतमन्तरं यस्मात्तन्निरन्तरम् । तस्य भावः नैरन्तर्य तस्मिन् । क्रियागुणद्रव्यैः कालाध्वनोः निरन्तरं संबन्धे कालाध्वभ्यां द्वितीया ॥ मासमिति । निरन्तरं माससंबन्धी एकाश्रयोऽध्ययनाकूलो व्यापारः॥ मासं कल्याणीति ॥ अव्यवच्छिन्नमास संबन्धिशोभनगुणवती ॥ मासं गुडेति ॥ अव्यवच्छिन्नमाससंबन्धी इत्यर्थः ॥ ( अधिपूर्वाणां शीस्थाssसामाधारः कर्म ) अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ (सुबोधिनी) - अधिपूर्वाणां शीस्थाऽऽ सामाधारः कर्म ॥ शीङ्ग स्वमे । ष्ठा गतिनिवृत्तौ । आस उपवेशने । अधिपूर्वकाणामेषामाधारः कर्मसंज्ञकः स्यादनुक्ते कर्मणि द्वितीयेत्यर्थः ॥ ( तत्त्वदी ० ) - अधिशेते इत्यादि ॥ अत्र त्रयाणां फलं स्थितिः । अवस्थानजन्यवैकुण्ठनिष्ठसंयोगानुकूल एकहर्यभिन्नाश्रयको वर्तमानो व्यापारः ॥ ( अभिनिपूर्वस्य विशेः ) अभिनिविशते सन्मार्गम् ॥ ( सुबोधिनी) - अभिनिपूर्वस्य विशेः ॥ द्वन्द्वेऽल्पस्वरप्रधानेति नः पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशसंघातविवक्षार्थम् । अभिनीत्येतत्संघात पूर्वरूप 'विश प्रवेश' इत्यस्याधारः कर्मसंज्ञकः स्यात् ॥ ( तत्त्वदी०) - अभिनि इति || नेरल्पस्वरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीह·शसमुदायविवक्षार्थम् । तेनेह न । “निविशंत यदि शूकशिखा पदे " इति ॥ अभिनिविशत इति ॥ अभिनिवेशजन्यसन्मार्गाभिन्नाश्रयः संबन्धस्तदनुकूल एकाभिन्नाश्रयको वर्तमानो व्यापारः ।।
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy