________________
(२२४) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः]
(येनाङ्गविकारः) येनाङ्गेन विकतेनागिनो विकारो लक्ष्यते ततस्तृतीया ॥ अक्ष्णा काणः ॥ अङ्गविकारः किम् । अक्षि काणमस्य ॥
(सुबोधिनी )-येनाङ्गविकारः॥ अङ्गमस्यास्तीति सोऽङ्गः । अस्त्यर्थेऽप्रत्ययः। अङ्गीत्यर्थः ॥ अङ्गस्याङ्गिनो विकारः अङ्गविकारः। अक्ष्णा काणः । अक्ष्णः काणत्वविशिष्ट इत्यर्थः॥ (तत्त्वदी० )-अङ्गिन इति ॥ अङ्गमस्यास्तीति सोऽङ्गी तस्येत्यर्थः ।। (कञ्चित्प्रकार प्राप्तस्य लक्षणे ) जटाभिस्तापसः ॥ ( सुबोधिनी)-कश्चित्प्रकार प्राप्तस्य लक्षणे ॥ सामान्यस्य भेदको विशेषः प्रकारः। स लक्ष्यतेऽनेनेति लक्षणं चिह्नम् । कश्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् ॥ जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्टः । जटाभिर्जाप्यं यत्तापसत्वं तद्विशिष्ट इत्यर्थः । इह जटानां लक्षणत्वम् । तेन लक्ष्यलक्षणभावः संबन्धोऽत्र ॥
(तत्त्वदी०)-जटाभिरिति ॥ जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः । लक्षणे किम् । अस्य जटाः ॥
(प्रकृत्यादिभ्यश्च ) प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन याति ॥
(सुबोधिनी)-प्रकृत्यादिभ्यश्च ॥ प्रकृत्या स्वभावेन चारुरभिरूपः न त्वलंकारादिना । अत्र क्रियाया अश्रवणे कर्तृकरणत्वाभावात्षष्ठी प्राप्ता तदाधिका तृतीया। प्रायेण बहुधा यज्ञं करोतीति याज्ञिकः ॥ गोत्रेण गार्ग्यः । गर्गगोत्रमस्येत्यर्थः । प्रातिपदिकार्थे प्रथमा प्राप्ता तदाधिका तृतीयाऽत्र ॥ समेन मार्गेण विषमेण मागेंण स एति गच्छतीत्यर्थः । समविषमाभ्यां कर्मभ्यां द्वितीया प्राप्ता तदाधिका तृतीया ऽत्र ॥ द्वयोोणयोः समाहारो द्विद्रोणम् । कचिन्नति स्त्रीत्वाभावः । विद्रोणपरिमितधान्यमूल्यवाचको द्विद्रोणशब्दः । द्रोणद्वयस्य द्रव्यस्य धान्यं क्रीणातीत्यर्थः ॥ सुखेन दुःखेन याति । सुखं दुःखं यातीत्यर्थः ॥
(दिवः करणम् ) कर्मसंज्ञं वा स्यात् ॥ अक्षरक्षान्वा दीव्यति ॥ (सुबोधिनी )-दिवः करणम् ॥ दिवः करणस्य कर्मसंज्ञा वा स्यात् ॥ दिवु क्रीडादौ । अस्य करणं वा कर्म भवति । अक्षैः अक्षान् वा दीव्यति । किंच सकमकत्वादःदेवयते देवदत्तो मैत्रणेत्यत्र गतिबुद्धीत्यनेन बावपि कर्तुः कर्मत्वं न ।