________________
[स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता। अत्र द्वित्वाद्यनभिधानेऽप्यव्ययादिवच्चैकवचनं स्यात् ॥ धातुवर्जिसमिति किम् । अहनित्यत्र 'नानो नो लोपश् ' इत्यनेन लोपश् स्यात् । अहनित्यत्र अह इत्यनेन सत्वं तु न तस्य लाक्षणिकत्वात् ॥ अर्थवदिति किम् । धनं वनमित्यादौ प्रतिवणे संज्ञा मा भूत् ॥ अत्र वार्तिकम् । कृत्तद्धितसमासाश्चेति । चकारोऽनुक्तसमुच्चयार्थः । तेन निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्येति ॥
(तत्त्वदी०)-अविभक्ति नामेति ॥ विभक्तेरन्यदिति अविभक्ति । विशेष्यं तु शब्दस्वरूपम् । तन्त्रादिना विभक्त्यन्तमपि लब्धम् ॥ ननु सूत्रे अविभक्तीत्येतावन्मात्रमर्थवद्ग्रहण कुतो लब्धमिति चेत् उच्यते । “द्वौ नौ च समाख्यातौ पर्युदासप्रसज्यको । पर्युदासः सहग्याही प्रसज्यस्तु निषेधकृत् ॥ प्राधान्यं तु विधैर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यस्तु स विज्ञेयः क्रियया सह यत्र नञ् ॥” इति । तथा च पर्युदासोऽत्र न गृह्यते । ततश्च विभक्तरर्थवत्त्वात् तत्सहशमर्थवदेव संज्ञि उपपततीत्यर्थवल्लाभः ॥ तन्त्रादिलब्धविभक्त्यन्तपर्युदासाद्धातुपर्युदासोऽपि॥ अर्थवदिति किम् । धनं वनमित्यत्र प्रतिवर्ण संज्ञा मा भूत् । तस्यां सत्यां स्याद्युत्पत्तौ नलोपः प्रसज्येत ॥ ननु च एकवर्णानामप्यर्थदर्शनादेतीत्यादाविव देवादिष्वपि वर्णा अर्थवन्तः कथं न । तथा च प्रत्याहाराह्निके अर्थवन्तो वर्णा इति भाष्येऽपि श्रीमत्पतञ्जलिनोक्तम् । उदाहृतं च कूप इति ककारे सति कश्चिदर्थो गम्यते । यूप इति यकारे अर्थान्तरम् । तेन मन्यामहे । यः कूपे कूपार्थः स ककारस्य यो यूरे यूपार्थः स यकारस्येति । तथा ब्राह्मण इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतमापायेऽपि गम्यते । येषां च संघातो यत्कार्य करोति ते प्रत्येकमपि तत्कुर्वन्ति । यथा तिलानां खारी तैलमुत्सादयति प्रत्येकं च तिलाः। ये तु यस्मिन् प्रत्येकमसमर्थास्तेषां समुदायोऽपि तत्रासमर्थः यथा प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तेषां खार्यपि । अतः संघातार्थवत्त्वाच्चार्थवन्तो वर्णाः । तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिरिति चेत् । उच्यते । अनर्थका वर्णाः प्रतिवर्णमानुपलब्धेः । नहि ब्राह्मण इत्यत्र ब्रा इत्युक्ते कश्चिदर्थों गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्त्वादन्येऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतत् । किंच कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोरर्थवत्त्वादन्येषामपि वर्णानामानर्थक्यमभ्युपगतं न । अथ तेषामप्यर्थवत्त्वम् । भूयिष्ठः कूपे यूपार्थः स्यात् कूपार्थश्च यूपे । यत्र भूयसामर्थानामन्वयो व्यतिरेकस्तु कस्यचित् । तत्रार्थानामपि भूयसामनुवृत्तिय॑तिरेकस्तु कस्यचित् यथा देवदत्तामानय शुक्लां देवदत्त गामानय कृष्णामिति । अतः संघाता एवं तेनार्थेनार्थवन्तः संघातार्थवत्त्वाच्चेति हेतुरनैकान्तिक इति शङ्का । तैलाग्निवत्तिसंघातेन दीपो न प्रत्येकम् । रथावयवैश्वक्रादिभिः संहतैः वजिक्रिया । किं चार्थवतां विपर्यासे अर्थप्रत्ययस्याविपर्यासः । आहर पात्रं पात्रमाहरेति । अपाये चापायः। गामानय शुक्ला शुक्ला गामानयेति । उपजने चोपजनः । गामानय शुक्लामिति ॥ वर्णेषु नैवम् । हिनस्ति इति सिंहः। हन्ति, हतः, नन्ति । भविता । अतः संघाता एवार्थवन्तः ॥ विभक्तिरहितमिति