________________
(५६)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः] किम् । हरिषु करोषि । सुप्सिपोर्मा भूत् । पदादित्वात्सस्य षो न स्मात् ॥ विभक्त्यन्तरहितमिति किम् । देवाः । भवन्ति । अत्र द्वित्वाद्यनभिधानेऽप्यव्ययादिवच्चैकवचनं स्यात् ॥ धातुवर्जितमिति किम् । अहन् नलोपश् स्यात् ॥ यत्तु प्राचोक्तम् । अथ विभक्तिविभाव्यते । तत् व्याख्यातृभिश्च व्याकृतं संधिप्रकरणकथनानन्तरं ये विधयो वक्ष्यन्ते तेषां विभक्तिसंज्ञा स्यात् । सा च विभाव्यते प्रस्तूयते तत्प्रकरणमारभ्यत इति विभक्तिशब्दावृत्त्या योज्यम् । स्वमते शब्दार्थयोरभेदोपचारादित्यर्थः । अभेदोपचाराच्च द्वितीयो विभक्तिशब्दः संज्ञिवचनः । आदिः संज्ञावचनः महासंज्ञाकरणं तु विभज्यन्ते विविच्यन्ते संख्याकर्मादयोऽर्था अनयेति विभक्तिः इत्यन्वर्थसंज्ञाविज्ञानार्थम् ॥ तेनागमादीनामत्र वक्ष्यमाणानामपि विभक्तिसंज्ञा नेति । तन्न वार्तिकं दृष्ट्वा सूत्रकृतः प्रवृत्त्ययोगात् ॥ अन्ये तु यौगिकार्थेनैव सिद्धमित्याहुः । विभज्यते प्रकटीक्रियते कर्तृकर्माद्यर्थोऽनया सा विभक्तिः ॥ अतिप्रसक्तं योगमानं कृदादौ यद्यपि तथापि स्यादिषु तिबादिषु च योगरूढिः । यच्च कृत्तद्धितसमासाश्चेति वार्तिकम् । चकारो नामसंज्ञानुकर्षणार्थः। अत्र तव्याख्यातारः। ननु किमर्थमिदं नामसंज्ञा तु पूर्वेणैव सिद्धा । न सिद्धयति । तत्र कृत्सु किबाद्यन्तानां धातुत्वानपायात् । अत एव हे सोमपा इति धिलोपो न स्वार्थतद्धितानामपि गुणीभूतार्थवत्वात् । तथाहि । चोर एव चौरः । स्वार्थेऽण् । अत्र हि चोरशब्दस्य साक्षादर्थवत्त्वम् । चौरशब्दस्य चोरशब्दस्मरणद्वारा गौणमुख्यन्यायेन चोरशब्दस्यैव पूर्वेण संज्ञा स्यान्न चौरशब्दस्येति विध्यर्थं कृत्तद्धितग्रहणम् । समासेष्वपि भूतपूर्वविभक्त्या अविभक्तित्वाभावात् । अत एव पञ्चामीति पदान्ताश्रयो नलोप इत्याहुः । अत्रेदं वक्तव्यम् । पञ्च नव दधि मधु इत्यादीनामविभक्तिकत्वेन नामत्वानपायात्कथं पदत्वम् । अत्र यदि विभक्तिसत्त्वसमये एव प्रवृत्ता पदसंज्ञा लुप्तायां विभक्तौ एकदेशविकृतन्यायेन प्रकृतिभागेऽपि साऽस्तीति ब्रूव तार्ह प्रकृतेऽपि समं किवादिसत्त्वसमये प्रवृत्ता नामसंज्ञा लुप्तेऽपि तस्मिन्प्रकृतिभागेऽपि साऽस्तीति तुल्यम् । यदि च लुप्ते प्रत्यये प्रत्ययलक्षणेन पदसंज्ञा स्वीकरोषि तदपि समं समाधानम् । यदपि स्वार्थतद्धितानामपीत्यादि तदपि न गौणत्वासंभवात् । स्वार्थोपसर्जनार्थान्तराभिधायित्वं गौणत्वम् । तच्चात्र न संभवति । नहि चौरचोरशब्दयोरर्थों भिन्नो येनैकोऽपरत्र गौणो भवेत् । यदपि अत्र चोरशब्दस्य साक्षादित्यादि तदपि न । नहि पर्यायाणां परस्परस्मरणद्वारा स्वार्थबोधकत्वं कचित्स्वीक्रियते । व्याकरणानभिज्ञस्यापि शक्तिग्रहे सति ततो बोधो जायते । अन्यथा ज्ञान ध्यानमित्यादौ युटः स्वार्थिकत्वेन गौणवादिकं स्यात् । यदपि समासेष्वपि भूतपूर्वविभक्त्येत्यादि तदपि न अवयवानां विभक्त्यन्तत्वेऽपि समुदायस्यातथात्वात् । यस्माद्विभक्तिर्विधीयते तद्विभक्त्यन्तम् । सा चावयवेभ्यो विधीयते न समुदायात् । अन्यथा समासवत् वाक्यस्यापि विभक्त्यन्तत्वेन पूर्वेण प्राप्तिविरहादेव तत्र नियमानुपयोगात् । यदि नन्वेवमपि अव्ययीभावादिति विभक्तिलुग्विधानाज्ज्ञापकात्समासे नामसंज्ञा भविष्यति । एवमपि नियमार्थ समासग्रहणम् । अर्थवत्समुदायानां मध्ये समासस्यैव यथास्यात् । तेन वाक्यस्यार्थवतो न भवतीति । तदपि न । उक्तरीत्या