________________
(५०)
सिद्धान्तचन्द्रिका। [विसर्गसंधिः] ऽप्यत्र ॥ रथन्तरं सामवेदसंज्ञा । अहोरथन्तरम् । एषु विसर्गस्य उत्वं तत ओत्वम् ॥ पदान्ते किम् ॥ अहोभ्याम् ॥
(तत्त्वदी० )-रोऽरात्रिष्विति ॥ अरात्रिष्विति बहुवचनात् राज्यादिर्गृह्यते ॥ अहोरात्र इति ॥ एकदेशविकृतस्यानन्यत्वाद्रात्रशब्दस्यापि ग्रहणम् । 'रात्राहाहान्ताः पुंसि । इति नियमात्पुंस्त्वम् । गतमहो रात्रिरेषेति मुख्यः प्रयोगः ॥ (अतोऽत्युः) अकारात्परस्य विसर्जनीयस्योकारो भवत्यति परेकोऽर्थः॥
(सुबोधिनी)-अतोऽत्युः॥ आदवे लोपशू इत्यस्यापवादोऽयम् । अतः परस्य विसर्गस्य उत्वं स्यादति ॥ अत इति किम् । अग्निरत्र ॥ तपरः किम् । देवा अत्र ॥ सुस्रोतः ३ अत्र । दूगदाह्वाने इति प्लुतः॥ अतीते किम् । देव इह ।। तपरः किम् । देव आगतः ॥ तिष्ठतु पय अ ३ निदत्तेत्यत्र गुरोरनृत इति प्लुतः॥ विसर्गस्य उत्वे आत्वे च 'एदोतोऽतः" इत्यल्लोपः कोऽर्थः ॥
(तत्त्वदी०)-अतोऽत्युरिति।।अत इति किम् । हरिरत्र ॥ तपरः किम् । देवा अत्र। अतीति तपरः किम् । देव आगतः॥ विसर्गस्येति किम् । राममनु । 'आदबे लोपश्' इत्यस्यापवादोऽयम् ॥
(हबे ) अकारात्परस्य विसर्जनीयस्योकारो भवति हबे परे ॥ देवो याति । मनोरथः॥
(सुबोधिनी) हवे ॥ अत इत्यनुवर्तते । अतः परस्य विसर्गस्य उत्वं स्यात् हवे ॥ 'आदबे लोपश्' इत्यस्यापवादोऽयम् ॥अतः किम् । वायुर्वन्द्यः॥तपरः किम्। वेधा वन्द्यः ॥ हवे किम् । देवः पश्यति ॥
(तत्त्वदी० )-हबे इति ॥ लोपशोऽपवादः ॥ अतः किम् । भानुर्वन्द्यः ॥ तपरः किम् । वेधा नम्यः ॥ हबे किम् । रामः कर्ता ॥ अत्र लघुभाष्यम् । अतोऽद्धबे उरित्येकयोगो न कृतोऽस्यानित्यत्वज्ञापनाय । तेन उपर्बुध इत्यादि सिद्धम् । अत्रेदमवधेयम् । 'कुप्पो क
पौ वा' इत्यस्य व्यवस्थितत्वाश्रयणेनैव वाचस्पत्यादीनां सिद्धत्वेनोपर्बुध इत्यत्रापि रत्वसिद्धेरनित्यत्वज्ञापनस्यानुचितत्वात् किं ज्ञापितेऽप्यस्यानित्यत्वे 'आदबे लोपश्' इत्यस्य प्राप्तौ रेफार्थयत्नस्य त्वयाऽयभ्युपगमात् ॥
(आदबे लोपश) अवर्णात्परस्य विसर्जनीयस्य लोपश् भवत्यबे परे ॥ देवा अत्र । वाता वान्ति । देवा इह ॥
(सुबोधिनी)-आदवे लोपश ॥ आदिति पञ्चम्यन्तम् । न तु तपरत्वम् । दिव औ इत्यादिनिर्देशात् ॥ अवे किम् । देवाः सन्ति ॥
(तत्त्वदी०)-आदबे लोपशिति। नन्वाद्ग्रहणं किमर्थम् । नचेकारादिनिवृत्त्यर्थ 'नामिनो रः' इति रेफेण बाधितत्वात् । न च हसव्यावृत्त्यर्थ हसाद्विसर्गस्यासंभवात् । तस्मादुत्तरार्थमेव ॥