________________
(३०)
सिद्धान्तचन्द्रिका। [प्रकृतिभावः ] नामधातौ सह आल् वा स्यात्॥आत्मनः लकारमिच्छतीति लकारीयति। यप्रत्ययः। पाल्कारीयति इत्यादावपि पूर्ववद्रूपचतुष्टयं बोध्यम् ॥ इति सुबोधिन्यां स्वरसंधिः॥ (तत्त्वदी०)-श्रीविद्यानगरस्थायिलोकेशकरशर्मणा। विहितायां हि टीकायां स्वरसंधिरगादयम् ।।
इति तत्त्वदीपिकायां स्वरसंधिः ॥
अथ प्रकृतिभावः। - [नामी)॥ अदसोऽमीशब्दः संधिं न प्राप्नोति ॥ अमी आदित्याः। अदसः किम् । अम्यत्र ॥
(सुबोधिनी)-नामी ॥ अदस इति वक्तव्यमत्र व्यवस्थार्थे वाऽनुवृत्तेः। अदस्शब्दस्यामीरूपं स्वरे परे सन्धि न प्राप्नोति ॥ अदस इति वचनादमो रोगोऽस्यास्तीत्यमी इत्यत्र सन्धिर्भवत्येव । नामीति ज्ञापकादकारस्य न निषेधः॥
(तत्त्वदी०)-नामी ।। अदसोऽमीशब्ददस्येकार एव संधिं न प्राप्नोति न त्वकारोऽपि नामीति सूत्रज्ञापकादिति भावः ॥ अमू असाते इत्यत्र य्वे द्वित्वे इत्यनेनैव संधिनिषेधः ॥ अदसः किम् । अम्यत्रेति प्रत्युदाहरणं बोध्यम् ॥ अमो रोगः सोऽस्यास्तीत्यमी । अदस एवेति तु वेत्यस्य व्यवस्थितस्यानुवृत्तेः ॥
(खे द्वित्वे ) ईकारान्त ऊकारान्त एकारान्तश्च शब्दो द्वित्वे वर्तमानः संधि न पामोति ॥ अनी अत्र । पटू अत्र । माले आनय । पचेते इमौ ॥
(सुबोधिनी)-वे द्वित्त्वे ॥ ईश्च ऊश्च एश्च एषां समाहारो य्वे । 'एकत्वे द्विशुद्वन्द्वौं' इति नपुंसकस्येति ह्रस्वो न द्विग्वादिसंज्ञापूर्वकत्वेनानित्यत्वात्॥अथवा भिन्नमेवेदं पदम् ॥ सर्वत्राविभक्तिकनिर्देशश्च ॥ ननु ईदूतोः स्थाने यवयोः कृतयोः संदेहो भवति किं ह्रस्वयोनिर्देश उत दीर्घयोरिति । उच्यते । दीर्घयोरेवात्र ग्रहणं न हस्वयोः दीर्घस्यैकारस्य साहचर्यात् । तेनाकुर्वह्यावामित्यादौ प्रकृतिभावोन । पदग्रहणमित्यनुवर्त्यते । तस्य वे इति विशेषणं तदन्तविधिराश्रीयते ईदूदेदन्तं पदमिति । तेन पचेते इमावित्यादौ प्रकृतिभावः सिद्धयति । न ह्यत्रैद द्वित्वेऽस्ति । द्वित्वे इति तु वे इत्यस्य विशेषणम् । किंभूतम् ईदूदेदन्तम् । द्वित्वे वर्तमानम् ॥ ननु कुमार्योरगारं कुमार्यगारं वध्वोरगारं वध्वगारमित्यत्रौसि लुप्ते ईदूदन्तं द्वित्वे वर्तते ततः प्रकृतिभावः स्यात् । उच्यते । ईकारादीनां प्रत्ययत्वस्यासिद्धेर्न प्रकृतिभावः । न ह्यत्र प्रत्ययत्वोपस्थापकं किश्चिदस्तीति । यद्वा समासे कृते समुदायस्यैवार्थवत्त्वेन पूर्वोत्तरपदयोरनर्थकत्वान्न प्रकृतिभावः ॥" मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम” इति भारतप्रयोगे तु इवाथै वशब्दो वाशब्दो वा बोध्यः॥ वा विकल्पोपमानयोः ' इति । “वं प्रचेतसि जानीयादिवाथै च तदव्ययम् ।" इति मेदिनी ॥