________________
(३५४)
सिद्धान्तचन्द्रिका |
[ द्विरुक्तप्र० ]
मित्यत्र दलद्वयेऽपि ं आपू प्राप्तः स नेत्यर्थः । अन्योऽन्यमित्यत्र इत्वन्यादेरिति तुः प्राप्तः स नेत्यर्थः । अन्योन्याश्रय इत्यत्र समासे सेलुक् नेत्यर्थः ॥
( अकृच्छे प्रियसुखयोर्वा द्वित्वम् ) प्रियप्रियेण ददाति प्रियेण वा । सुखसुखेन ददाति सुखेन वा । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥
(सुबोधिनी) - अकृच्छ्रे प्रियसुखयोर्वा द्वित्वम् | अनयोर्द्वित्वं समासवच्च वा स्यात् ॥ द्विवचने समासवद्भावात् स्यादिलुकि कृते पुनः कृत्तद्धितसमासाश्वेत्यनेन स्यादिः ॥
( यथास्वे यथायथम् ) यथाशब्दस्य द्वित्वं क्लीवत्वं च भवति ॥ यथास्वमिति वीप्सायामव्ययीभावः । यो य आत्मा यद्यच्चात्मीयं तद्यथास्वम् । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥
(सुबोधिनी ) - यथास्वे यथायथम् ॥ यथास्वे इति स्वं स्वमिति यथास्वम् । सार्थेऽव्ययीभावः । यो य आत्मेत्यादि "स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोsस्त्रियां धने" इत्युक्तत्वादात्मात्मीययोरपि स्वशब्दवाच्यत्वमस्ति । आत्मात्मीयोरर्थयोर्विद्यमानस्य यथाशब्दस्य द्वित्वं नपुंसकत्वं च भवति । नपुंसकत्वान्नपुंसकस्येति ह्रस्वः । यथायथं ज्ञातेत्यत्र कर्तृकार्ययोरक्तादावित्यनेन कर्मणि षष्ठी न । तृन्मत्ययस्य क्तादिषु गणनात् । आत्मा यो धृतिर्बुद्धिः स्वभावो ब्रह्म व च इत्यमरोक्तत्वात् यथायथम् यथास्वभावमर्थः ॥
66
ܐܕ
(द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ) एष्वर्थेषु द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते ॥ तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे तु विषयभूताः || द्वन्द्वं मन्त्रयते रहस्यमित्यर्थः ॥ मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापीति मर्यादार्थः ॥ व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्तः । द्विवर्गसंबन्धेन पृथगवस्थितः ॥ द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ द्वन्द्वं संकर्ष
1