________________
(२६६) सिद्धान्तचन्द्रिका। [समासप्र०] 'ये' इति दीर्घः । एतायते ॥ दर्शनीयां मन्यते इति मनेः कतारे णिनिः। दर्शनीयमानी । प्रातिपदिकग्रहणे लिंगविशिष्टस्यापि ग्रहणमिति स्वभिन्नां कांचिद्दर्शनीयां मन्यते या सा दर्शनीयमानिनी । इहापि पुंवत् । व्रण ईप् ॥ (तत्त्वदी० )-एतायत इति ॥ ईपो निवृत्तौ तन्निमित्तकस्य नत्वस्यापि निवृत्तिः ।। ( अकतद्धिताभ्यां कोपधस्य न ) पाचिकाभार्यः । रसिकाभार्यः । (सुबोधिनी)-अकतद्धिताभ्यां कोपधस्य न ॥ अकतद्धितप्रत्ययाभ्यां कृत्वा कोपधस्य स्त्रीलिङ्गस्य पुंवद्भावा न भवति ॥ पचतीति तृवुणाविति वुण् । युवोरित्यकादेशे आवत इत्याए । काप्यत इतीत्वम् । पाचिका भार्या यस्य स पाचिकाभार्यः। 'अन्यार्थे' इति हस्वः ॥ रसोऽस्त्यस्या इति 'अइकौ च मत्वर्थे' इतीकः । रसिका भार्या यस्येति रसिकाभार्यः। 'अन्यार्थे' इति ह्रस्वः॥ एवं मद्रेषु भवा मद्रिका। भवार्थे कः । आप् । काप्यत इतीत्वम् । माद्रेकेवाचरतीति मद्रिकायते । मद्रिकां मन्यते इति मद्रिकामानिनी । अत्र यङ्मानिनारिति पुंवद्भावे प्राप्ते निषेधः ।।
(संज्ञापूरणार्थप्रत्यययोन ) दत्ताभार्यः । पञ्चमीभार्यः॥ (सुबोधिनी)-संज्ञापूरणार्थप्रत्यययोर्न ॥ अनयाः पुंवद्भावो न भवति । दत्ता भार्या यस्येति दत्तां मन्यते इति स्त्रियां पुंसि च संज्ञाभूतोऽयं दत्तशब्दो भाषितपुंस्कोऽस्ति । दत्ताभार्यः ॥ दत्तामानिनी ॥ पञ्चमी भार्या यस्येति पञ्चमीभार्यः। कुत्सिता पञ्चमीति पञ्चमीपाशा । पञ्चादेर्मडिति संख्यापूरणे मट् । पञ्चमीपाशेत्यत्र तरतमोत प्राप्ते निषेधः॥
(वृद्धिहेतोस्तद्धितस्यारक्तविकारार्थस्य न) माथुरीभार्यः ॥ अरक्ते किम् । कषायेण रक्ता कन्था काषायी । काषायी कन्था यस्य स काषायकन्थः ॥ अविकारे किम् । हेनो विकारो हैमी मुद्रिका यस्येति हैममुद्रिकः ॥
(सुबोधिनी)-वृद्धिहेतोस्तद्धितस्यारक्तविकारार्थस्य न ॥ आदिस्वरस्येति सूत्रेण विहिता या वृद्धिस्तस्या हेतुर्यस्तद्धितोऽरक्तविकारोऽर्थो यस्य सोऽरक्तविकारार्थस्तस्यारक्तविकारार्थस्य तद्धितस्य पुंर्वद्भावनिषेधो भवति ॥ मथुरायां भवा माथुरी । भवार्थेऽण आदिस्वरस्यति वृद्धिः। व्रण इतीए । माथुरी भार्या यस्य स माथुरीभार्यः। माथुरीवाचरतीति माथुरीयते । कर्तुङिति यङ् । माथुरी मन्यते इति माधुरीमानिनी । अत्र पुंवद्भावो न ॥ वृद्धिहेतोरीत किम् । मध्ये भवा मध्यमा। मध्यान्म इति भवाथै मःमध्यमा भार्या यस्य स मध्यममार्यः॥ तद्धितस्येति किम् ।