________________
[ समासप्र. ] टीकाद्वयोपेता।
(२६७) काण्डं लुनातीति काण्डलावी । कार्येऽणित्यण् । कृदयम् । काण्डलावी भार्या यस्य स काण्डलावभार्यः॥ आदिस्वरस्येति विहिता वृद्धिरिति किम् । तत्परिमाणमस्या अस्तीति तावती । एतत्किंयत्तद्भय इति वतुः। यत्तदेतदामित्याकारः। तावती भायों यस्य स तावद्भार्यः ।। अरक्तविकारार्थस्यति किम् । कषायण रक्ता काषायी । 'कारकात् क्रियायुक्ते' इति तेन रक्तमित्यर्थऽण् । व्रण इतीए । काषायकन्थः । पुंवद्भावादीपो निवृत्तिः ॥ हेनो विकारो हैमी । विकारार्थेऽ' । व्रण इती। हैमी मुद्रिका यस्य स हेममुद्रिकः । पुंवद्भावः॥ (तत्त्वदी०)-वृद्धिहेतोरिति ॥ यस्मिन् तद्धिते आदिस्वरस्य वृद्धिरित्यर्थः ।। (युटि सति पुंवत् ) वैयाकरणभार्यः ॥ (सुबोधिनी )-युटि सति पुंवत् ॥ वृद्धिहेतोस्तद्वितस्यारक्तविकारार्थस्य स्त्रीप्रत्ययान्तस्य पुंवद्भावो भवति युडागमे कृते सति ॥ व्याकरणमधीते वेत्ति वा इत्यर्थे अण । न संधिय्वोरिति युट । पश्चाद्वद्धिः। व्रण इतीप् । वैयाकरणी भार्या. यस्य स वैयाकरणभार्यः ॥ सुष्टु अश्वो यस्य स स्वश्वः । स्वश्वस्यापत्यं स्त्री उट्वृद्धी । सौवश्वी भार्या यस्य स सौवश्वभार्यः॥
(स्वाङ्गादीपोऽमानिनि न ) सुकेशी भार्या यस्य स सुकेशीभार्यः। मानिनि तु सुकेशमानिनी ॥
( सुबोधिनी)-स्वाङ्गादीपोऽमानिनि न ॥ स्वाङ्गात्परस्य ईप्प्रत्ययस्य पुंवद्भावो न भवति । मानिन्शब्दे परे तु पुवद्भावो भवतीत्यर्थः ।। सुष्टु केशा यस्याः सा स्वाङ्गादतीपू । सुकेशी भायो यस्य स सुकेशीभार्यः॥स्वाङ्गात्किम् । पट्टी भार्या यस्य स पटुभायः॥ ईपू इति किंम् । न विद्यन्ते केशा यस्याः सा अकेशा । सहनजितीनिषेधः । अकेशा भार्या यस्य सोऽकेशभार्यः। पुंवद्भावः। सुकेशी मन्यते यः स सुकेशमानी। स्त्री तु सुकेशमानिनी ॥
(जातिवाचिनः स्त्रीप्रत्ययान्तस्य न ) शूद्राभार्यः । ब्राह्मणीभार्य, इत्यादि ॥
(सुबोधिनी)-जातिवाचिनः स्त्रीप्रत्ययान्तस्य न ॥ जातिवाचिशब्दास्परस्य स्त्रीप्रत्ययस्य पुंवद्भावो न भवति ॥ शूद्रा भार्या यस्य स शूद्राभार्यः। अजादेरित्याप् ॥ ब्राह्मणी भार्या यस्य स ब्राह्मणीभार्यः । जातेरिती ॥
(गोः) गोशब्दस्यान्यार्थे वर्तमानस्य ह्रस्वो भवति ॥ पञ्च गावो यस्य स पञ्चगुः ॥