________________
[समासप्र०] टीकाद्वयोपेता।
(२८५) (नहिवृतिवृषिव्यधिरुचिसहितनिषु ) किबन्तेषु पूर्वस्य दीर्घः। उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषटू । परीतत् ॥
(सुबोधिनी )-नहिवृतिवृषिव्यधिरुचिसहितनिषु ॥ विवन्तेषु पूर्वस्य दीर्घः ॥ विवन्तेषु परेषु पूर्वस्योपसर्गकारकस्य दीर्घः स्यात् ॥ मह बन्धने । वृतु वर्तने । वृषु सेचने । व्यध ताडने । रुच दीप्तौ । सह मर्षणे । तनु विस्तारे ॥ उप समीपे नह्यते इति उपानत् । कर्मणि विप् ॥ निवर्तते इति नीवृत् । “नीवृजनपदो देश" इत्यमरः ॥ प्रवर्षतीति प्रावृट् ॥ मर्माणि विध्यतीति मर्मावित् । श्वानं विध्यतीति नाम्नो नो लोपशिति नलोपः । श्वावित् । व्यधेः ग्रहां डिति चेति संप्रसारणम्॥ निरोचते इति नीरुक् ॥ ऋतिं सहत इति ऋतीषट् । “ऋतिर्जुगुप्साकल्याणगतिस्प
_स्वथो ऋतुः" इति हैमः ॥ परि तनोतीति परीतत् ॥ विवन्तेष्विति किम् । परिणहनम् ॥ उपसर्गकारकस्येति किम् । पटुरुक् । तिग्मरुक्॥
(तत्त्वदी० )-नहिवृतीति ॥ उपनह्यत इति उपानत् ॥ निवर्तत हति नीवृत् ॥ प्रवप्रतीति प्रावृट् ॥ मर्माणि विध्यतीति मर्मावित् ॥ निरोचते इति नीरुक् ॥ ऋतिं सहते इति ऋतीषट् ॥ परितनोतीति परीतत् ॥
(मत्वर्थे बहुस्वरस्य) अमरावती ॥ (सुबोधिनी )-मत्वर्थे बहुस्वरस्य ॥ बहुस्वरस्य दीर्घः स्यात् संज्ञायामस्त्यर्थे परे ॥ अमराः सन्त्यस्याममरावती। मान्तोपधाद्वत्विनौ इति वत्। ष्टवित इतीप् ॥ संज्ञायामिति किम् । बलवती ॥ बहुस्वरस्यति किम् ॥ व्रीहिमती ।।
(शरादेश्च ) शरावती ॥ (सुबोधिनी )-शरादेश्च ॥ शरादेर्दीर्घः स्यात् अस्त्यर्थे । शराः सन्त्यस्यामिति शरावती ॥
(अजिरादेन ) अजिरवती ॥ (सुबोधिनी)-अजिरादेर्न ॥ अजिरादेर्दी? न भवति अस्त्यर्थे ॥ अजिरमस्त्यस्यां सा अजिरवती । “ अङ्गणं चत्वराजिरे" इत्यमरः ।।
( उपसर्गस्य घन्यमनुष्ये वा दीर्घः) परिपाकः-परोपाकः । परिहासः-परीहासः ॥ अमनुष्ये किम् । निषादः ॥