________________
[संज्ञाप्रकरणम् ] टीकाद्वयोपेता।
(९) नाह ॥ आभ्यां सहितानामिति ॥ आद्यन्ताभ्यां वर्णाभ्यां सहितानां मध्यगा. नामाद्यन्तवर्णरूपाः संज्ञा भवन्तीत्यर्थः । एतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवहियन्ते । प्रत्याहियन्ते संक्षिप्यन्ते वर्णा यत्र स प्रत्याहारः । साधनाधारयोर्युडिति युटि प्राप्ते संज्ञायामकर्तरि चेति अधिकरणे घञ् प्रत्ययः ॥
(तत्त्वदी० )-आद्यन्ताभ्यामिति ॥ आदिश्च अन्तश्च आद्यन्तौ । आवादेशे वकारस्य 'यवोर्लोपश्' इति सूत्रस्य छन्दस्त्वात्पुनः संधिरित्यभिप्रेत्याह ॥ आद्यन्तौवर्णाविति ॥ साङ्केतिकं वा पदम् ॥
(कार्यायेत् ) कार्य विधातुमुच्चार्यमाणो वर्ण इत्संज्ञो भवति ॥ या या संज्ञा सा सा फलवती । यस्येत्संज्ञा तस्य लोपः ॥
(सुबोधिनी)-कार्यायेत् । वर्णानामाद्योच्चारणं द्विधा । कार्यार्थ श्रवणार्थ चेति । कार्य विधातुं कर्तुमुच्चार्यमाण आचार्येण कथ्यमानो वर्ण इत्संज्ञकोऽस्ति ॥ क्रियते संपाद्यते तत्कार्य प्रयोजनमित्यर्थः। कार्यार्थों यथा । उङसिङसङीनां डकारो डिति डितां यडित्यादिकार्यार्थः । श्रवणार्थों यथा।हकारादिष्वकार इति । एति गच्छतीति इत् । आशुविनाशीत्यर्थः । तुमोऽप्रयुक्तस्य कर्मणीत्यनेन कार्यायेति चतुर्थी ॥
(तत्त्वदी० )-कार्यायेदिति ॥ 'तुमोऽप्रयुक्तस्य कर्मणि' इति कर्मणि चतुर्थीत्याशयेनाह ॥ कार्य विधातुमिति ॥ यत्तु प्रत्ययाद्यतिरिक्त इति प्रत्ययादयः प्रत्ययागमादेशास्तदतिरिक्त इति तद्विवरणं च तत्सर्वमापाततः। यत्तु प्रत्ययः परस्य बोधस्तदादिकारणमुत्तमवृद्धवाक्यप्रयोगस्तदतिरिक्त इति तदपि प्रकृतानुपयुक्तत्वादुपेक्षितम् । यद्याग्रहस्तदेत्थं योज्यः। प्रत्ययादिषु अतिरिक्तः लौकिकसिद्धप्रयोगोच्चारणादधिक इति कथंचित्प्राचो ग्रन्थः ॥ यस्यदि. ति ॥ एति गच्छति प्रयोगेण समवैति 'इण् गतौ' अस्मात्विपि 'हस्वस्य पिति कृति' इति तुक् । इत् । आशुविनाशीत्यर्थः । इदिति महासंज्ञाकरणादितो लोपः ॥
(प्रसक्तादर्शनं लोपः) (सुबोधिनी )-प्रसक्तादर्शनं लोपः॥ अदर्शनं सामान्य लोप इत्यस्यार्थः । प्रसक्तानुच्चारणरूपविशेषस्तु लक्षणया ज्ञातव्यः।प्रसक्तस्य प्रसङ्गप्राप्तस्य वर्णस्यादर्शनमा श्रवणमनुच्चारणं लोपसंज्ञं भवति ॥ लोपसंज्ञाप्रदेशाः 'हसेपः सेोपः' इत्यादयः।लोपसंज्ञाफलं तु प्रत्ययलोपे प्रत्ययलक्षणमिति ॥ प्रसक्तस्येति किम् । दधि मध्वित्यादौ हस्वस्य पिति कृति तुगिति तुक मा भूत् । अस्ति हि तत्र विपोऽदर्शनम् । तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति ॥
(तत्त्वदी०)-लोपस्वरूपमाह ॥प्रसक्तेति ॥प्रसक्तस्य प्राप्तस्यादर्शनमनुच्चारणं लोप इत्यर्थः॥ प्रसक्तेति किम् ।दधि अत्रापि विपोऽनुच्चारणस्य सत्त्वात्तस्य लोपत्वे प्रत्ययलक्षणेन तुक् प्रसज्येत॥