________________
[द्विरुक्तप० ] टीकाद्वयोपेता।
(३५१) हॅकसंख्यावरुद्धो द्विरुक्तार्थः संख्यान्तरे निराकाङ्क्ष एव इत्युक्तत्वादेकवचनमेव । एकैकयेत्यत्र सर्वादेः समासादाविति पूर्वभागे पुंवद्भावः। एकस्मै एकस्मै इत्येकैकस्मै।।
( तत्त्वदी० )-अवग्रहे इति ॥ वैदिकानां पदपाठे इत्यर्थः ॥
( पीडायां द्योत्यायां दे स्तो बहुव्रीहिवच ) गतगतः। विरहात्पीड्यमानस्येयमुक्तिः। गतगता ॥
(सुबोधिनी)-पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च ॥ पीडार्थद्योतकं पदं द्विः स्यात् ॥ गतः गत इति बहुव्रीहिवद्भावाद्विभक्तेढुंग् । गतगतः। गता गतेति पुर्ववति पुंवद्भावः। गतगता ॥ (तत्त्वदी०)-गतगतेति॥इह पुंवद्भावः पूर्वपदस्य बहुव्रीहिवद्भावान्नोत्तरपदस्येति भावः॥
(सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तो बहुव्रीहिवच ) पटुपट्टी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् ॥ गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्वेह गृह्यन्ते । शुक्लशुक्लः पटः । शुक्लशुक्लं रूपम् ॥ __ (सुबोधिनी)-सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तो बहुव्रीहिवच्च ॥ तद्भिनत्वे सति तद्गतभूयोधर्मवत्वं सादृश्यम् । पट्टी पट्वीति पुंवद्वोत पुंवद्भावः । पटुः पटुरिति बहुव्रीहिवद्भावाद्विभक्तेलृक् । पटुपटुः 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्युक्तत्वात् यत्र शुक्लादयः शब्दा द्रव्यवाचकास्तत्र गुणा उपसर्जनीभूता एव सन्ति । अतोऽत्र द्रव्यवाचकशुक्लादिपदस्य गुणवाचकशुक्लादिपदस्य च ग्रहणम् । शुक्लः शुक्ल इति वहुव्रीहित्वाद्विभक्तेलृक् । शुक्लशुक्लः परः । गुणोपसर्जनद्रव्यवाचिन उदाहरणम् । शुक्लं शुक्लमिति समासक्त्त्वाद्विभक्तेर्लक् । शुक्लशुक्लं रूपम् । केवलगुणवाचि न उदाहरणम् ॥
(तत्त्वदी० )-पटुपट्वी इति ॥ बहुव्रीहिवद्भावात्पूर्वभागे सिलोपपुवद्भावौ । 'नवं नवं प्रीतिरहो करोति' इत्यत्र वीप्सायां द्वित्वम् । अनेन द्वित्वे सिलुक स्यात् । कथं 'भीतभीत इव शीतमयूखः' इति भारविः ॥ इवशब्देन सादृश्यस्योक्ततया सादृश्ये द्वित्वायोगात् । सत्यम्। भीतेभ्यो भीत इति व्याख्येयम् । तेनातिभीत इति फलितम् । “खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपमुज्य" इति मेघदूते एकस्यापि खेदस्यावस्थासु भेदं प्रकल्प्य वीप्सा बोध्या ॥ 'मन्दं मन्दं नुदति' इत्यत्र तु मन्दं स्वतो मन्दगामिनं मन्दं नुदतीत्यन्वयो बोध्यः ।।
( अनुक्रमे द्योत्ये द्वे ) मूले मूले स्थूलो वृक्षः ॥