________________
(३५२)
सिद्धान्तचन्द्रिका |
[ द्विरुक्तप्र० ]
( सुबोधिनी) - अनुक्रमे द्योत्ये द्वे || अनुक्रमद्योतकं पदं द्विः स्यात् ॥ वीप्साभावादयमारम्भः । एकस्य वृक्षादेरेकमेव मुख्यं मूलमग्रं च भवति । इतरेषां भागानामापेक्षिकोऽग्रमूलव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे । यथा मूलं स्थूलं यथाऽग्रं सूक्ष्मं तथा नेतरे भागा इति वीप्साया असंभवः । मूले मूले स्थूलस्तथाऽग्रेऽग्रे सूक्ष्मः॥ ( संभ्रमेण प्रवृत्तावनेकधा प्रयोगः ) सर्पः सर्पः सर्पः बुध्यस्व बुध्यस्व बुध्यस्य ॥
(सुबोधिनी) - संभ्रमेण प्रवृत्तावनेकधा प्रयोगः ॥ संबोध्यो हि यावद्भिः शब्दैः प्रयोजनमति तावन्तः प्रयोगा वाच्या इत्यर्थः ॥
(क्रियासमभिहारे द्वे) लुनीहि लुनीहि इत्येवायं लुनाति ॥
(सुबोधिनी) - क्रियासमभिहारे द्वे ॥ पौनःपुन्यं भृशार्थश्च क्रियासमभिहारस्तत्र पदं द्विः स्यात् ॥ पौनःपुन्यम् । आख्यातकृदन्तयोरेव यथा । पचति पचति । भुक्त्वा भुक्त्वा ॥ भृशार्थे यथा लुनीहि लुनीहीति ॥
(तत्त्वदी ० ) - क्रियासमभिहारे इति ॥ पौनःपुन्ये भृशार्थे चेत्यर्थः ॥ ( कर्मव्यतिहारे सर्वादेर्द्वित्वं समासवच्च बहुलम् ) बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य नित्यं समासवत् ॥
( सुबोधिनी ) - कर्मव्यतिहारे सर्वादेर्द्वित्वं समासवच्च बहुलम् ॥ क्रियाविनिमयेऽर्थे सर्वादिगणस्य द्वित्वं स्यात् । नित्यमेवेदं द्वित्वम् । बाहुलकं तु समासवद्भवस्यैव । तेनान्यपरशब्दयोः समासवद्भावो न । इतरशब्दस्य च नित्यमेव समासवद्भावो भवतीत्यर्थः ॥
( तत्त्वदी ० ) - कर्मव्यतिहारे इति ॥ क्रियाविनिमये इत्यर्थः ॥
(असमासवद्भावे पूर्वपदस्थाया विभक्तेः सिरादेशो वाच्यः ) अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । ‘अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः ॥ एवं परस्परम् । वाचस्पत्यादित्वात्सः ॥ इतरेतरम् । इतरेतरेणेत्यादि ॥
1
(सुबोधिनी) - असमासवद्भावे पूर्वपदस्थाया विभक्तेः सिरादेशो वाच्यः॥ पूर्वपदस्य प्रथमादिविभक्तीनां स्थाने सिरेव भवत्यसमासवद्भावे ॥ अन्यः अन्य इति अन्योऽन्यः । अन्यौ अन्याविति अन्योऽन्यौ । अन्ये अन्ये इति अन्योऽन्ये ।