________________
(१८६)
सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः] (सुबोधिनी)-पादो वा ईप् ॥ कृतसमासान्तात्पादशब्दादीप् वा स्यात् ॥ दौ पादौ यस्याः सा इति बहुव्रीही संख्यासुव्याघ्रादिपूर्वस्योत पादशब्दस्यान्तलोपः। द्विपाद् । ईपि तु शसादौ स्वरे तद्धितयस्वरयोरिति पदू । द्विपदी छन्दोजातिः ॥
(आवृचि)ऋचि वाच्यायां सत्यां पदान्तादापू स्यात्॥ द्विपदा ऋक् ॥ ( सुबोधिनी)-आवृचि॥ऋचि वाच्यायां तु द्विपदा एकपदा ऋक् इत्येव भवति॥
(काप्यतः ) कापि परे पूर्वस्याकारस्येकारो भवति ॥ कारिका । पाचिका । पाठिका ॥ अतः किम् । नौका ॥ तपरः किम् । राका ॥
(सुबोधिनी )-काप्यतः ॥कापि इ अत इति छेदः । ककारेण सहितः आए काप् तस्मिन्॥प्रत्ययस्यैव को गृह्यते आपा साहचर्यात स्त्रियां वर्तमानस्य नाम्नोऽतःस्थाने इकारो भवति कापि परे। करोतेः तृवुणाविति वुण । णित्त्वाद् वृद्धिः कारिका॥ एवं पचतेः पाचिका ॥ अतः किम् । नौका । नौशब्दात्स्वार्थे कप्रत्ययः ॥ ककाराभावे तु शक्नोतीति शका। पचाद्यप्रत्ययः॥ तपरः किम् । राका ॥ मामकनरकयोरत इ। ककारस्य प्रत्ययत्वाभावादप्राप्तौ वचनम् । ममेयं मामिका । अणीनयोरिति ममकादेशः । णित्त्वादृद्धिः । अजादित्वादाप् ॥ नरान् कायतीति 'कै शब्दे' अस्मात् आतो ड इति डप्रत्ययः । आप इत्वं च । नरिका ॥
(तत्त्वदी.)-काप्यत इति ॥ कापि इ अत इति छेदः । कसहित आप काप् तस्मिन् । अत्र कात्य एव गृह्यते आपा साहचर्यात् । तेन शक्नोतीति शकेत्यत्र न ॥ अत इ कापीति वक्तव्ये विपरीतनिर्देशादन्यदपि भवति तेन क्वचित्प्रत्ययस्थे केऽपि न । क्वचिदप्रत्ययस्थेऽपि भवति ॥ नरान्कायति नरिकेति मामिकेत्यत्र च । एवं स्थिते साहचर्यं न सर्वत्र नियामकमित्यु. क्तिर्गौरवग्रस्तत्वादुपेक्षिता । स्त्रियामित्यत्रानुवर्तते । स्त्रियां वर्तमानस्य नाम्नोऽत इर्भवतीति व्याख्येयम् । तेन कारकमाप्नोति कारकाप इत्यत्र नेत्वम् ॥ अतः किम् । मातृका ॥
(क्षिपकादीनां न ) क्षिपका । ध्रुवका । कन्यका । चटका । यका। सका । उपत्यका । अधित्यका ॥
(सुबोधिनी)-क्षिपकादीनां न ॥ एषामत इकारो न कापि ॥ क्षिपे म्युपधात् क इति कः । ध्रुव स्थये इत्यस्मादपि कः। अथवा व गतिस्थैर्ययोरस्मात्पचाद्यप्रत्ययः। कुटादित्वात् ङित्त्वेन गुणाभावे नुधातोरित्युवू । क्षिपा एव क्षिपका शस्त्रविशेषः ॥ ध्रुवा एव ध्रुवका भाजनम् ॥ चट भेदनेऽस्मात्पचायः। चटका ॥ सर्वत्रापि अज्ञातादौ के पुनरपि च ह्रस्वो वेति ह्रस्वः ॥ या एव यका । सा एव सका।