________________
(८०)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः ] (सुबोधिनी ) आतो धातोर्लोपः॥ आकारान्तस्य धातोर्लोपः स्याच्छसादौ स्वरे ॥ 'शतृशानक्वसन्तानां तृजन्तानां तथैव च । क्विवन्तानां च शब्दानां धातुत्वं नोपहन्यते ॥” प्रातिपदिकसंज्ञयेत्यर्थः ॥ अतोऽस्य द्वे संज्ञे स्तः । षष्ठीनिर्दिष्टस्यत्यन्तलोपः ॥ धातोः किम् । हाहान् । गंधर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम् । 'हाहा हूहूश्चैवमाद्या गन्धर्वाः' इत्यमरः ॥ टा सवर्णे दर्घिः। हाहा ॥ डे ऐत्वं हाहै ॥ ङसिङसोर्दीर्घः हाहाः । हाहाः ॥ ओसि औत्वं हाहौः । ङौ एत्वं हाहे ॥ शेष सोमपावत् । आत इति योगविभागादधातारेप्याकारलोपः क्वचित् । क्त्वः ॥ इत्यादन्ताः॥
(तत्त्वदी)-आतो धातोर्लोपः इति ॥धातोः किम् । खट्टाः पश्य ॥ न च नामत्वधातुत्वयोर्विरोधात्कथं धातुत्वमिति वाच्यम् क्विबन्ता विजन्ता विडन्ताश्च धातुत्वं न जहति नामत्वं प्रतिपादयन्तीति वचनादविरोधात् ।। ननु अस्य धातोरिति किमिति न सूत्रितमिति चेन्न । श्रीपेण कुलेनेत्यादावपि परत्वादकारलोपापत्तेर्दुरित्वात् । तपकरणं तु व्यर्थमेव ॥ अत्रात इति योगविभागादधातोरप्यलोपः क्वचित् तेन क्त्वः ॥ हाहानिति ॥ गंधर्वविशेषवाचकमव्युत्पन्नं नामेदम् । केचित्तु जहातीति हाहा इति क्रियाशब्दं वदंतः सोमपावद्रपमाहुः॥
(औयू)इकारान्तादुकारान्ताच्च पर औयू आपद्यतेई ऊ भवतः॥हरी॥ (सुबोधिनी )-औ यू इदुद्भ्यां पर औ यू स्याताम् । ईदूतोर्दीर्घयोर्ग्रहणे ई ऊ इति पदद्वयं बोध्यम् । ह्रस्वग्रहणपक्षे तु यु इत्यत्रेतरेतरद्वन्दः ॥ इदुझ्यामिति किम् । देवो ॥ तपरत्वमिति किम् । वातप्रम्यौ । हूतौ ॥
(तत्त्वदी०)-औ य इति ॥ अत्र इदुद्भवामित्यनुवर्तते । दीघयोर्ग्रहणे ई ऊ इति छेदः हस्वयोर्ग्रहणे तु इतरेतरद्वन्द्वः॥
(ए ओ जसि ) इकारान्तस्योकारान्तस्य च जसि परे एकार ओकारश्च भवति ॥ हरयः॥
(सुबोधिनी) एओ जसि ॥ इदुद्भवामित्यनुवर्तते । तच्च षष्ठया विपरिणम्यते। तच नाम्नो विशेषणम् । विशेषणे हि तदंतविधिः । इदुदन्तस्य नाम्न एओ स्यातां जसि परतः ॥इदुदन्तस्यति किम् । रायः । ग्लावः ॥ तपरत्वं किम् । वातप्रम्यःहूह्वः।
(तत्त्वदी० )-एओ इति ॥ अत्रेदुद्भ्यामित्यनुवृत्तस्यापि विभक्तिविपरिणामेन व्याख्यानमित्यभिप्रेत्याह-इदुदन्तस्येत्यादि ॥इदुदन्तस्य किम्। रामाः। गुणो जसीति तु न सत्रितं लाघवे विशेषाभावात् । जसि गुण इत्युक्ते त्वर्द्धमात्रालाघवेऽपि प्रतिपत्तिलाघवार्थमिदमुक्तम् ।।
(धौ ) इकारान्तस्योकारान्तस्य च धौ परे एकार ओकारश्च भवति॥ हे हरे । हरिम्, हरी, हरीन् ॥