________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(८१) (सुबोधिनी)-धौ ॥ इदुदन्तस्य एओ भवतः धौ परे ॥ कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वमेत्वमोत्वं च ॥ ततः 'समानाद्धेः' इति घिलोपः॥ इदुदन्तस्य किम् । हे ग्लौः । तपरत्वं किम् । हे वातप्रमीः। हे ह्हः।।।
(तत्त्वदी०)-धाविति ॥ अत्र एओ धिजसोरिति जस्ध्योरिति वा एकयोगो न कृतो यथाक्रमं स्थानिनोरादेशविधानशंकानिरासाय ॥ यत्तु योगविभागो विषयसप्तमीलब्ध्यर्थ इति तन्न विषये सप्तम्या अविधानादित्युक्तं तच्चिन्त्यम् ॥ विषये सप्तम्या बहुस्थले दर्शनात्॥ किंच यत्रं प्रत्ययोत्पत्तेः पूर्वमेव कार्य विधीयते तत्रैव विषयसप्तमीति व्यवहारः प्राचाम् ।। यथाऽऽर्धधातुके 'बजो वच् 'चक्षिङः ख्याञादयः' एवं वदता वया स्वयमेव विषयसप्तम्याः स्वीकृतत्वात्॥
(टा नाऽस्त्रियाम् ॥ ) इकारान्तादुकारान्ताच परष्टा ना भवत्यस्त्रियाम् ॥ हरिणा, इरिग्याम्, हरिभिः॥
(सुबोधिनी)-टा नाऽस्त्रियाम् ॥ इदुद्भयां परष्टा ना स्यात् । स्त्रीलिङ्गे तु न॥ किंच पुंसीत्युक्ते तु अदसष्टाप्रत्यये त्यदाद्यत्वे मत्वे च अम टा इति स्थिते इनादेशतः परत्वादन्तरङ्गत्वाच्च 'मादू' इत्युत्वे पुल्लिङ्गे सिद्धममुनेति । क्लीवे त्वमुनेति न सिद्धयति । 'नामिनः स्वरे' इति नुमि कर्तव्ये उत्वस्यासिद्धत्वात् । अतोऽस्त्रियामित्युक्तम ॥ इदुद्भयां किम् । गवा ॥ तपरत्वं किम् । वातप्रम्या, हूह्वा ।
(तत्त्वदी० )-टा नाऽस्त्रियामिति ॥ इदुद्भयामित्यत्राप्यनुवर्तते । अत्र अस्त्रियामिति नझं प्रश्लिष्य छेदः । नञः प्रश्लेषे च व्याख्यानमेव शरणमिति तु वृद्धाः॥ ननु पुंसीत्येव किमिति न सूत्रितं लाघवात् । अत्राहुः । अमुना कुलेनेत्यत्र उखादन्तरङ्गत्वादिनादेशः स्यादतो नाम्यभावान्नुभावे रूपसिद्धिः स्यादित्यस्त्रियांग्रहणसामर्थ्याद् दुर्बलमप्युत्वं प्रवर्त्य नाभावो भवतीत्युक्तं कैश्चित्तन्न इनादेशत उत्वस्यान्तरङ्गत्वात् । अदस्शब्दमकारान्तात्परवर्ण ह्यपेक्षते उत्तम् । इनादेशस्तु नामस्यादि अकार टा चतुष्टयापेक्षत्वेन बहाश्रयत्वात् बहिरङ्गः ॥ किंच कृतेऽपीनादेशे स्थानिवद्भावेन टात्वमाश्रित्य नाप्रवृत्तेरिति पूर्वपक्षस्योत्तरम् । उत्तरार्थमस्त्रियांग्रहणं सूत्रकृता कृतम् । कथम् मु इति सूत्रान्तरम् । मुशब्दात्परष्टा ना भवति । मुशब्दश्वादस एव गृह्यते नान्यस्य पूर्वसूत्रेणैव सिद्धेः । तथा चात्र सूत्रे पुंसीत्यस्यानुवृत्तौ क्लीबे अमुनेति रूपसिद्धिन कर्तव्येति उत्वस्यासिद्धत्वात् । अस्त्रियामित्यनुवृत्तौ तु नपुंसकेऽप्यस्य प्रवृत्तिरिति ॥ अत्रेदं वक्तव्यम् । मु इति सूत्रान्तरकल्पनापेक्षया अस्त्रियामित्यस्यैव तज्ज्ञापने लाघवात् ॥ इदुद्भयां किम् । गवा ॥ तपरत्वं किम् । हूह्वा ॥ टा किम् । हरिभ्याम् ॥
(ङिति ) इकारान्तस्योकारान्तस्य च ङिति परे एकार ओकारश्च भवति ॥ हरये, हरिभ्याम्, हरिश्यः ॥
(सुबोधिनी)-डिति ॥ इदुदन्तस्य नाम्न एओ स्याताम् । ङ् इत् यस्य स डिन्त तस्मिन् ङिति । डिगत स्यादौ ॥ डिति किम् । हरिभ्याम् ॥स्यादौ किम् । हरिरिवा