SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [ स्वरान्त पुंल्लिङ्गाः ] टीकाद्वयोपेता । (७९) किम् | तपस्विनः ॥ नान्तस्य किम् । महतः | अतः किम् । दण्डिनः ॥ स्वरे किम् । राजभ्याम् ॥ तपरः किम् । प्रतानयतीति प्रतान् तस्य शसि प्रतानः इत्यत्र लोपो न । केवलस्य क्विपि नान्तत्वाभावात् व्यन्तत्वमाश्रित्योदाहृतमिति भावः ॥ वेति किम् । तक्ष्णः ॥ युक्तात्किम् । अर्यम्णः ॥ यूष्णा इति ॥ षो मण्ड: । 'मुद्रामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात् ॥ (नाम्म्रो नो लोपशधौ ) नान्तस्य नाम्नो नस्य लोपश् भवति रसे पदान्ते चाधौ ॥ यूषभ्याम् । यूषभिः ॥ नस्य लोपारी न विभक्तिकार्यम् ॥ पक्षे पञ्चसु देववत् ।। पदादयः पृथक् शब्दा इत्येके । सोमपाः, सोमपौ, सोमपाः, सोमपाम् ॥ 1 ( सुबोधिनी ) - नाम्नो नो लोपशधौ ॥ न इत्यनेन नाम विशेष्यते । विशेषणत्वात्तदन्तविधिर्भवति । नान्तस्य नाम्नोऽन्तस्य लोपश् स्याद्वसे पदान्ते चाधौ ॥ नाम्न इति किम् । अहन् ॥ नाम्न इत्यनुवर्तमाने पुनर्नामग्रहणं नामसंज्ञाप्रवृत्तिकाले स्थितस्य नकारस्य लोपशर्थम् । तेनागमादेशयोर्न कारस्य लोपश् न भवति । यथा । पचन् । भवन् । श्वन् । सुहिन् । प्रशान् ॥ यूषभ्याम् । अत्र नस्य लोपशि कृते अद्भि इत्यात्वे प्राप्त उच्यते । नस्य लोपशि न विभक्तिकार्यमिति । विभक्तौ कार्य विभक्तेव कार्यमिति समासः ॥ पथिष्वित्यादौ पत्वं तु न विभक्तिकार्यम् । सैषादिति ज्ञापकात् ॥ आदेशाभावपक्षे सर्वाणि रूपाणि देववत् । आदेशपक्षे पञ्च वचनानि देववत् । पदादयो नादेशाः किंतु पृथकशब्दाः इति एके आचार्या वदन्ति । तेन 'पदङ्गत्रिश्चरणोऽस्त्रियाम् ।" स्वान्तं हृन्मानसं मनः' इत्यादि संगच्छते ॥ इत्यदन्ताः ॥ सोमं पिवतीति सोमपाः । पा पाने इत्यस्मात् आतो ड इति उप्रत्ययं बाधित्वा किप् ॥ ( तत्त्वदी ० ) - नाम्नो नो लोपशधाविति ॥ अत्र न इति षष्ठयन्तं नाम्नो विशेषण अतस्तत्र तदन्तलाभ इत्यभिप्रेत्याह ॥ नान्तस्येति ॥ ननु राजेत्यत्र परत्वात्प्रथमं नलोपशिति चेत्र । प्रायशो दृश्यतामिति वचनात्क्वचित्पूर्वेणापि परबाधः आ साविति ज्ञापकाच्च । अन्यथा अधावित्येवावक्ष्यत् ॥ ननु यूषभ्याम्, यूषभिरित्यादौ अदि ब्भ्य इत्यादिनात्वाऽऽदिकमस्त्वित्यत आह-नस्य लोपशि न विभक्तिकार्यमिति ॥ विभक्तौ कार्य विभक्तेर्वा कार्यमिति समासः । तेन दंडित्रित्यादौ नलोपे सति षत्वं भवत्येव । सैषादिति ज्ञापकेन तस्य विभक्तिकार्यत्वाभावात् ॥ अत्र नाम्न इत्यनुवर्तमाने पुनर्नामग्रहणान्नाम संज्ञा प्रवृत्तिकाले नान्तत्वं ग्राह्यम् । तेन पचन्नित्यादौ नलोपो न ॥ ( आतो धातोर्लोपः ) धातुसम्बन्धिन आकारस्य लोपो भवति शसादौ स्वरे परे || सोमपः । सोमपा, सोमपाभ्यामित्यादि ॥ एवं कीला - लपाशंखध्मामधुपाविश्वपाप्रभृतयः ॥ धातोः किम् | हाहान् । हाहा । हा । हाहाः । हाहाः । हाहौः ॥ हरिः ॥
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy