________________
(१००) सिद्धान्तचन्द्रिका। [ स्वरान्तस्त्रीलिङ्गाः]
(सुबोधिनी)-आऽम्शसि ॥ ओत आत्वं स्यात् ॥ शसा साहचर्यात् स्यादीनामेवाम् गृह्यते । नेह । अचिनवम् । असुनवम् । औतोऽपवादोऽयम् । अम् च शश्चानयो समाहारोऽमशस् तस्मिन् अम्शास। गाः इत्यत्र न त्वाम्शसीत्यावे इत्युक्तेः 'सो नः पुंसः' इत्यनेन सस्य नकारो न । सुष्टु द्यौर्यस्मिन् दिवसे स मुद्यौः । • द्योदिवौ दे स्त्रियामभ्रम्' इत्यमरः ॥ उः शम्भुः स्मृतो येन सः स्मृतौः। बहुव्रीहाविति क्तान्तस्य पूर्वनिपातः ॥ इत्योदन्ताः ॥ 'ग्लौमूंगाङ्कः कलानिधिः' इत्यमरः॥ स्वरे आत् । ग्लाबो, ग्लावः॥ इत्यौदन्ताः॥ इति सुबोधिन्यां स्वरान्ताः पुंल्लिङ्गाः॥
(तत्त्वदी.)-आऽम्शसीति ।। आ अम्शसीति च्छेदः । अम् च शय च अनयोः समाहारोऽम्शस् तस्मिन् ॥ अम्शसीति किम् । गावौ । वसोर्व उरित्यादिनिर्देशान्नोवर्णशङ्का । स्याद्यधिकारादचिनवमित्यत्रातिप्रसङ्गोऽपि न ॥ ओतः किम् । ग्लावम् ॥ श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां पुंलिङ्गोऽगात्स्वरान्तकः॥
इति तत्त्वदीपिकायां स्वरान्ताः पुल्लिङ्गाः।
अथ स्वरान्ताः स्त्रीलिङ्गाः। (आपः) आदन्तादाबन्तात्परस्य सेर्लोपो भवति ॥ गङ्गा ॥ (सुबोधिनी० )-आपः॥ आ आप इत्याकारप्रश्लेषादाकारान्तादावन्तान्नानः परस्य सेौपः स्यात् ॥ आवन्तारिकम् । सोमपाः ॥ आदन्तारिकम् । खट्वामतिकान्तोऽतिखट्वाएकदेशविकृतस्यानन्यत्वादावन्तत्वेऽपि न सिलोपः आदन्ताबन्ताभावात्॥
(तत्त्वदी० )-आप इति॥अत्र आ आबिति प्रश्लेषादाकाररूपस्यैवापो ग्रहणादतिगङ्ग इत्यादौ नातिप्रसङ्गः । न चात्र गौणमुख्यन्यायादेव नेति वाच्यं तस्य विशिष्टरूपोपादानविषयत्वात् । अत्र तु आप इति प्रत्ययग्रहणं न तु किंचिद्विशिष्टरूपम् ॥ अत्राहुः ॥ आप इति सानुबन्धग्रहणं व्यर्थं विशेषयहणं त्वर्थविशेषादेवेति । अत्रेदमवधेयम् । अर्थविशेषानुशरणानुधावनतः सानुबन्धनिर्देशस्य लघुत्वात् ॥ न चाप इति सूत्रं व्यर्थ हसेपः सेलौंप इत्यत्रैव हस आ ईबिति प्रश्लेषेण पकारस्योभययोजनेनैवेष्टसिद्धेः । उत्तरत्रोभयानुवृत्तिस्तु स्त्रीभुवोरित्यस्याम्शसीत्यत्रैव निरसनायेति चेत् । न । त्रिद्वन्द्वे सति पश्चात्पकारेण संबन्धे अन्तरङ्गत्वाद इ ए इति कृते हसैप इति स्यात्। त्रिपदे द्वन्द्वे तु पकारस्याकारेण संबन्धो न लभ्यते । अतः सूत्रारम्भ एवोचित इत्युक्तं वृद्वैः । तत्रेदमवधेयम् । अइएसवर्णदीर्घयोरन्तरङ्गबहिरङ्गत्वविशेष मानाभावः । किं च हसैप इति जातेऽपि मात्रागौरवाभावः । किं च त्रिपदेऽपि द्वन्द्वे पकारानन्वये न कापि क्षतिः ।लूनः शान्तिः सोममालभतेत्यत्रेव अर्थविशेषस्यैव निश्चायकत्वमिति स्वयमेवास्याभ्युपगमादित्यूहनीयमायुष्मता ॥
(औ) आदन्तादाबन्तात्पर औ ईर्भवति ॥ गङ्गे, । गङ्गाः ॥