SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [ हससंधिः ] टीकाद्वयोपेता । ( ३९ ) ( तत्त्वदी ० ) - पदान्त इत्यनुवृत्तेः पदान्तादिति लब्धे अन्त्यादिति ग्रहणमस्यानित्यत्वज्ञापनायेत्यभिप्रेत्याह-नवतिनगर्योर्नेति ॥ षण्णवतिरिति ॥ षटू च नवतिश्च षडधिका नवतिरिति वा ॥ ( सुपो न ) लिट्सु । टनात्सस्य वा धुट् । लिट्त्सु ॥ ," (सुबोधिनी - सुपो न ॥ टवर्गात्परस्य स्यादीनां सुपः सकारस्य ष्टुत्वं न भवति ॥ (तत्त्वदी ० ) - 'नशात् नषि' इत्यत्र नद्वयोपादनं टुत्वस्यानित्यत्वज्ञापनार्थमित्याशयेनाह सुपो नेति ॥ सुपः सकारस्य ष्टुत्वं नेत्यर्थः ॥ ( तोर्लि लः ) तवर्गस्य लकारे परे लकारः स्यात् ॥ तल्लुनाति । भवाँल्लिखति । अनुनासिकाननुनासिकत्वेन द्विधा यवलाः । तत्र नकारस्यानुनासिको लकारः ॥ ( सुबोधिनी ) - तोलि लः ॥ तोरिति किम् । शक्नोतीति शक् लुनातीति ॥ लि इति किम् । तदन्नम् ॥ यकारवकारलकाराः सानुनासिका निरनुनासिकाश्च । तत्र सानुनासिकस्य नकारस्य स्थाने सानुनासिक एव लो भवतीत्यर्थः ॥ ( तत्त्वदी ० ) - तोर्लि ल इति ॥ अत्र लघुभाष्यम् । स्तोरित्यनुवर्तमाने तोर्ग्रहणं सकारनिवृत्त्यर्थमित्येके । तन्न लकारपरस्य सकारस्याभावात् । न च को लुनातीत्यादावन्तरंगेण विसर्गेण भाव्यम् । सल्लावक इत्यत्रापि परत्वादन्तरङ्गत्वाच्च दत्वे कृते लः । तोर्लि इति द्विलकार पाठ्यम्।लू लि चेति छेदः। एवं सार्द्धमात्रा न्यूना भवति । 'अत्रेदमवधेयम् । तोर्लिं इत्युक्ते रकारात्परत्वात्तन्निमित्तक द्वित्वमाशङ्कय विधेयसंदेहस्यानिवार्यत्वात् । किं च स्तोः शचुभिः श्चुरित्यत्र प्रकृतस्य श्चुरित्यस्य विधेयत्वेनोपन्यासाद्वा ॥ भवाँल्लिखति इति ॥ अत्रानुनासिको लकारः ॥ ( उदः स्थास्तम्भोः स लोपः ) उत्थानम् । उत्तम्भनम् ॥ 1 ( सुबोधिनी) - उद: स्थास्तम्भोः सलोपः ॥ उदः परयो स्थास्तम्भोः सकारस्य लोपो भवति ॥ ष्ठा गतिनिवृत्तौ । स्तम्भु निरोधने । सलोपे कृते 'खसे चपा इसानाम् ' इति दस्य तः । उत्थानम् ॥ ( तत्त्वदी०)-उदः स्थास्तम्भोरिति ॥ उदः परयोः स्थास्तम्भोः सस्य लोपः स्यादित्यर्थः ॥ उत्थानम् । उत्तम्भनमिति ॥ स्थीयत इति स्थानम् । भावे युटू । युवोरनाकावित्यनादेशः सलोपे कृते ' खसे चपा झसानाम् ' इति दकास्य तकारः ॥ ( नः सक् छते ) नान्तस्य पदस्यावपरे छते सगागमो भवति ॥ राजश्चित्रम् । भवाँस्तनोति । अवपरे किम् । सन्त्सरुः ॥ (सुबोधिनी ) - न सक् छते ॥ नान्तस्य पदस्य सकू स्यात् अवः परो यस्मात्सः अवपरस्तस्मिन् अवपरे छते । कित्त्वादन्ते । सकोऽकारस्तुच्चारणार्थः । कस्यान्ते इत्या
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy