________________
[ विसर्गसन्धिः ] टीकाद्वयोपेता।
(५३) (सुबोधिनी)-रि लोपो दीर्घश्च ॥ र इति षष्ठ्यन्तमनुवर्तते । रि इति सप्तम्य. न्तम् । रो लोपः स्याद्रेफे परे ॥चकारो विधेययोर्लोपदीर्घयोः समुच्चयार्थः। तेन पूर्वस्वरस्य दीर्घश्च ॥ रीति किम् । प्रातर्वायुः॥ र इति किम् । मनोरथः॥
(तत्त्वदी० )-रि लोपो दीर्घश्चेति ॥ रि इति सप्तमी । अत्र र इति षष्ठयन्तमनुववर्तते इत्यभिप्रेत्याह-रेफस्येति ॥ रीति सप्तमीनिर्देशाल्लोपनिमित्तानेफात्पूर्वस्येत्याशयेनाहपूर्वस्येति ॥ चकारो विधेययोर्लोपदीर्घयोः समुच्चयस्य द्योतकः ॥
( सैषादसे) सशब्दादेषशब्दाच्च परस्य विसर्जनीयस्य लोपो भवति । हसे परे ॥ स चरति । एष हसति ॥
(सुबोधिनी)-सैषाद्धसे ॥ सश्च एषश्च तयोः समाहारः सैषं तस्माद् । अनसमासेऽककारात्सैषात् परस्य विसर्गस्य लोपः स्यात् हसे परे । स इति एष इति च कृतात्वसत्वस्य तच्छब्दस्य एतच्छब्दस्य चानुकरणम् । अनुकार्यानुकरणयोभैदेऽर्थवत्त्वाद्विभक्त्युत्पत्ती सत्यां वन्दे विभक्तिलोपे च कृते नामत्वात् ङसि परतः स्मटोऽभावः। द्वन्द्वे सर्वादीनां न सर्वकार्यमित्युक्तत्वात् ॥ अककारात् किम् । एषको रुद्रः ॥ अनसमासे किम् । असः शिवः ॥ हसे किम् । एषोऽत्र ॥
(तत्त्वदी० )-सैषादसे इति ॥ सश्च एषश्च तयोः समाहारः सैंघ तस्मात् । स इति तच्छब्दस्य कृतात्वसत्वत्यानुकरणम् । एष इत्येतच्छब्दस्य । अनुकार्यानुकरणयोर्भेदादर्थवत्त्वम् । स्मटोऽभावो द्वन्द्वे सर्वादीनां सर्वकार्याभावज्ञापकः । स धातुरित्यादिज्ञापकात् तच्छब्दस्यैवानुकरणम् । तत्साहचर्यादेषशब्दोऽप्यतच्छब्दस्यैव विकृतनिर्देशात्प्रथमान्तादन्यत्र न । असशिवः इत्यादौ तु संज्ञापूर्वको विधिरनित्य इत्यनित्यत्वान्न ॥
(सशब्दाद्विसर्गस्य लोपः स्वरे लोप एव पादपूरणं चेत् ) सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महात्यागी सैष भीमो महाबल ॥ इति विसर्गसन्धिः ॥
(सुबोधिनी)-सशब्दाद्विसर्गस्य लोपः स्वरे लोप एव पादपूरणं चेत् ॥ स इति शब्दस्य विसर्गस्य लोप: स्यात् स्वरे परे । चेद्यदि लोपे सत्येव पादः पूर्येत । पादःश्लोकचतुर्थांश इति। पादपूरणमिति किम् । स एवमुक्त्वा । लोप एवेत्यवधारणात अन्यथा पादपूरणे लोपोन। सोऽहमाजन्मशुद्धानाम्' इति ।। स एष रामोऽस्ति । कीदृशः दशरथस्यापत्यं दाशरथिः। अत इञनषेरिती ॥ स एष युधिष्ठिरः। कीदृशः । राजते इति राजा ॥सएष कर्णः । कीदृशः। महांश्चासौ त्यागश्च महात्यागः।महात्यागोऽस्ति यस्य स महात्यागी। 'मान्तोपधादत्विनौ' इतीन् । स एष भीमः। कीदृशः । महद् बलं यस्य स महाबलः । अइको चेत्यप्रत्ययः॥ इति सुबोधिन्यां विसर्गसंधिः ॥