________________
[ स्वरान्तपुँल्लिंगाः ]
टीकाद्वयोपेता ।
( ६३ )
( एस्भ बहुत्वे ) अकारस्यैत्वं भवति सकारभकारादौ विभक्तौ
बहुत्वे सति ॥ देवेभ्यः ॥
( सुबोधिनी ) - ए स्भि बहुत्वे ॥ अकार एकारो भवति बहुत्वे वर्तमानेषु सकारकरादिषु स्यादिषु परेषु ॥ अकार इति किम् | हाहाभ्यः ॥ बहुत्वे किम् | देवस्य ॥ स्यादिष्विति किम् । पचध्वम् ॥
( दी ० ) - एभि बहुत्वे इति ॥ भीति सप्तम्यन्तम् । स् च भ् च स्भ् तस्मिन् स्भि ॥ अतः किम् । हरिभ्यः ॥ तपरः किम् | हाहाभ्यः ॥ स्मीति किम् । देवानाम् ॥ ननु स्भीति किम् । न च देवानामित्यत्रातिप्रसङ्गः तत्र परत्वान्नामीति दीर्घेण बाधात् । देवानित्यादौ तु शसीत्यनेन । अथ देवा इत्यत्रातिप्रसङ्गः स्यादिति चेन्न । तद्वारणाय रैस्मीति सूत्रात् भीत्यस्यानुवृत्तेः सत्त्वात् अथानन्तरत्वादद्भीत्यतो भीत्यस्यैवानुवृत्तिः स्यादिति चेन्न इच्छा ज्ञापकात् ।। अथवा देवा इत्यत्रापि सवर्णदीर्घः पूर्वोऽपि 'झबे जबा:' इत्यादिनिर्देशेन कचित्पूर्वेणापि परबाधस्येष्टसिद्ध्यर्थमभ्युपगमात् । तस्माद्वयर्थं स्भीति । अत्राहुः । देवपूज्या इत्यादी पूर्वपदस्थस्यैव वारणाय स्भीत्यावश्यकमिति तन्नेति वृद्धाः । विहितविशेषणाश्रयणात् ।
tad बहुवर्तमाने पर एत्वमित्यभ्युपगमात् । अन्ये तु बहुत्वविशेषणार्थं पुनः स्भीत्युक्तम् । तेन बहुत्वे वाच्ये सति विहितो यःसकारो भकारश्च तस्मिन् परतो नाम्नोऽत एत्वम् । तेन सोमं सुनोतीति सोमसुत् तमाचक्षते सोमसयन्ति ते सोमस इत्यत्र नेत्याहुः । तन्नति नव्याः । स्याद्यनुवृत्त्यैतद्वारणसंभवात् । अत्रोच्यते रैस्मीत्यत्र नकारोऽपि द्रष्टव्यो नादावपि स्यादावात्वमित्यर्थः । तथा च त्रिराणामिति सिद्धयति । अत्रार्थे इदं स्भिग्रहणमेव लिङ्गम् । यदि तस्याप्यत्रानुवृत्तिः स्यात्तदा देवानामित्यत्राप्येत्वं स्यात् । नामीति तु हरीणामित्याद्यर्थं स्यात् । ततस्तन्निवृत्त्यर्थं पुनः स्भिग्रहणस्यावश्यकत्वात् ॥
(ङसिरत ) अकारात्परो ङसिरद्भवति ॥ देवात्, देवाभ्याम् देवेभ्यः ॥
( सुबोधिनी ) - ङसिरदिति ॥ आदन्तान्नाम्नः परो ङसिरत् स्यात् ॥ अतः किम् । वातप्रम्यः । ग्लावः ॥ तपरः किम् । हाहाः ॥ ननु ङसेरदादेशे कृते 'यस्य लोपः' इत्यतो लोपः स्यात् । उच्यंत स्यादौ ' यस्य लोपः' इत्यस्याभावा ज्ञापितोऽकारविधानेन अन्यथा ङसिस्त इत्यवक्ष्यत् ॥ यद्वा तद्धितप्रकरणादीपीति सूत्रारम्भाव नात्र यस्य लोपः । देवादित्यत्र 'वाऽवसाने' इति जबत्वचपत्वे 'हसे हसः' इति दतयोर्द्वित्वे रूपचतुष्टयं बोध्यम् ॥
( तत्त्वदी ० ) - ङसिरत् ॥ अत्राप्यत इत्यनुवर्तते । अतो वातप्रम्य इत्यादौ न । तपरत्वात् हाहा इत्यत्र न । अत्रापि ङकारो व्यर्थ इत्युक्तिः पूर्वोक्तयुक्त्यैव निरसनीया । न चाति कृते ‘यस्य लोपः' इत्यनेनाकारस्य लोपोऽस्त्विति वाच्यम् । अकारोच्चारणसामर्थ्यात्स्यादौ न 'यस्य लोपः” इति प्रवर्तते । अत्राहुः । कार्ये 'सिस्योः ' ' शेषाः ' - इत्यादिनिर्देशात् तद्धितप्रकरणाद्वा यस्य लोपो न ।