________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
(३१५) निपात्याः ॥ दुह्यते इति दोहः क्षीरम् । ह्योगोदोहस्य विकार इति ह्योगोदोहस्य हियगुरादेशो विकारार्थे ईनप्रत्ययश्च निपात्यते । णितो वेति णित्वादृद्धिः । 'वोsव्यस्वरे' इत्यत् । हैयङ्गवीनं नवनीतम् ॥ छन्दसः श्रोत्रभावो निपात्यते 'तदधीते' इत्येतस्मिन्नर्थे इयप्रत्ययश्च । णितो वेति वृद्धयभावः । श्रोत्रियः ॥ परक्षेत्रशब्दात सप्तम्यन्तात् इयप्रत्ययः परशब्दलोपश्च निपात्यते । क्षत्रियो व्याधिः शरीरा. न्तरे चिकित्स्यः । अप्रतीकार्य इत्यर्थः॥ अनुपदशब्दादन्वेष्टरि इन् प्रत्ययो निपात्यते । पदस्य पश्चादनुपदम् ॥
( आख्याताव्ययसर्वादेष्टेः प्रागकः ) पचताक । उच्चकैः । नीचकैः । सर्वकः । अयकम् । असकौ । त्वकम् । अहकम् ॥
( सुबोधिनी )-आख्याताव्ययसर्वादेष्टेः प्रागकः ॥ एषां टेः प्राक् अकप्रत्ययः स्यात् स्वार्थे ॥ अन्त्योऽकार उच्चारणार्थः॥
(त्यतनौ) भवायर्थे त्यतनौ प्रत्ययौ स्तः अव्ययात् ॥ कुत्र भवः कुत्रत्यः । कुतस्त्यः। अमात्यः । इहत्यः ॥ अव्ययस्य तद्धितयस्वरयोष्टिलोपः ॥ बहिर्भवो बाह्यः । स्वः स्वर्गस्तत्र भवः सौवः । पौनःपुन्यम् । पौनःपुनिकः॥
( सुबोधिनी)-त्यतनौ ॥ भवाद्यर्थे एतौ स्तः ॥ अमेहक्कतस्त्रेभ्य एव त्यः। अमाऽन्तिकसहाथयो । अमाभवः अमात्यः ॥
( दक्षिणापश्चात्पुरसस्त्यण ) दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः। ऐषमस्त्यम् । ऐषमस्तनम् ॥
(सुबोधिनी)-दक्षिणापश्चात्पुरसस्त्यण ॥ एभ्यस्त्यण् स्यात् भवाद्यर्थे । दक्षिणेत्यादन्तमव्ययम् । दक्षिणा भवः दाक्षिणात्यः॥ ऐषमोह्यमश्वम्भ्यो वा त्यः । पक्षे तनः । अत्र वर्षे ऐषमः । अतीतेऽह्नि ह्यः । आगामिदिने श्वः ।।
(श्वसस्तिकण्वा) शौवस्तिकस् । अद्यतनः । यस्तनः। श्वस्तनः। सनातनः । सदातनः । पुरातनः । दोषातनः । सायंतनः । चिरंतनः। पाह्नतनः॥
(सुबोधिनी ) श्वसस्तिकण्वा ॥ इवसव्ययात्तिकणपि स्यात ॥ श्वो भवमिति द्वारादित्वात् युडागमवृद्धी । शौवस्तिकम्।। कालवाचिभ्योऽव्ययेभ्यः सायंचि.