________________
( २३२) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः ]
( सुबोधिनी )-प्रसितोत्सुकाभ्यां योगे तृतीयासप्तम्यौ ॥ "तत्परे प्रसितासक्तौ” इत्यमरः ॥ उत्सुकताहचर्यात्प्रसितस्तत्परार्थक एव गृह्यते । तेन प्रकर्षण सितः शुक्ल इत्यर्थं न ॥ ( तत्त्वदी० )-प्रसित इति ॥ “तत्परे प्रसितासक्तौ” इत्यमरः ॥ (साध्वसाधुप्रयोगे सप्तमी ) साधुः कृष्णो मातर्यसाधुर्मातुले ॥ (सुबोधिनी)-साध्वसाधुप्रयोगे सप्तमी ॥ अत्र पूजा न विवक्षिता किन्तु तत्त्वकथनं तत्रापि सप्तमी भवति एतदर्थ साधुग्रहणम् । साधुनिपुणाभ्यामिति सूत्रे साधुग्रहणं तु पूजायां विवक्षितायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थमिति ॥ .
(निमित्ताकर्मयोगे सप्तमी) चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुअरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥
( सुबोधिनी )-निमित्तात्कर्मयोगे सप्तमी ॥ कर्मणो योगः संवन्धः कर्मयोगस्तस्मिन्कर्मयोगे निमित्तात्फलात्सप्तमी स्यात् ॥ निमित्तशब्देन कारणग्रहणे तु जाडयेन बद्ध इत्यादावप्यतिप्रसङ्गः स्यादित्यर्थः । अत्र हेतुतृतीया तादर्थ्यचतुर्थी च प्राप्ता तन्निवारणार्थमिदम् ॥ मैत्री दीपिनं चित्रकं हन्ति चर्मणि चर्मफलार्थम् । चर्मद्वीपिनोः समवायः संबन्धः । कुञ्जरं हन्ति दन्तयोर्दन्तफलार्थम् । दन्तकुञ्जरयोः समवायः संबन्धः ॥ चमरी गां हन्ति केशेषु केशफलार्थम् ॥ केशचमर्योः समवायः संबन्धः ॥ मैत्रेण पुष्कलको गन्धमृगो हतः सीनि अण्डकोशफलार्थम् । अथवा पुष्कलकः शङ्कुर्हतो निहितो निखात इत्यर्थः । सीम्नि सीमज्ञापनार्थम् । सीमपुष्कलकयोः संयोगः संबन्धः ।“अथ पुष्कलको गन्धमृगे क्षपणकीलयोः" इति मेदिनी॥ "सीमा घाटस्थितिक्षेत्रे स्वण्डकोशेषु च स्त्रियाम्” इति मेदिनी ॥
(तत्त्वदी०)-निमित्तादिति ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः। सीनीति ॥ सीमाऽण्डकोशः । पुष्कलको गन्धमृगः। योगविशेषे किम् । वेतनेन धान्यं लुनाति ॥
(क्तस्येन्नन्तस्य कर्मणि ) अधीती व्याकरणे ॥ (सुबोधिनी )-तस्येन्नन्तस्य कर्मणि ॥ इन्नन्तस्य क्तस्य कर्माण सप्तमी स्यात् ॥ द्वितीयावाधिका सप्तमी ॥ अधीतमनेनेत्यधीती व्याकरणे । भावे क्तप्रत्ययस्तत इष्टादिभ्य इति कर्तरीन्प्रत्यये कृते पश्चाद्गुणभूतक्रियया संबध्यमानं व्याकरणमनुक्तं कर्म ॥ इति पुनरपि सप्तमी ॥
(तत्त्वदी० )-अधीतमनेनेति विग्रहे इष्टादिभ्य इनिरित्यनेन इनिः॥