________________
[ स्वरसन्धिः ] टीकाद्वयोपेता। इत्यनेन पूर्वपदस्य स्थाने ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घ उवर्णो भवतीत्यर्थः॥न्यायसिद्धेयम् । तथा हि । सभायामास्यतामित्युक्तेहि पंडिता:पंडितःसहासते शूराः शूरैः कवयः कविभिन तु संकरेण । किञ्च गवां संघ प्रति गौर्धावति अश्वोऽश्वानामित्यादिव्यवस्था तिर्यक्ष्वपि दृश्यते ॥ (लोपशि पुनर्न सन्धिर्वक्तव्यः ॥) लोपशि कृते सति सन्धिर्न भवति ॥ यथा-त आगताः ॥ (नस्य लोपशि न सन्धिर्वक्तव्यः॥) श्वादेरिति निर्देशात् । यथा राजाश्वः॥ (नस्य लोपशि तु विभक्तिकार्यम् ॥) पञ्चस्विति निर्देशात् ॥ किलात्पः स इति षत्वं तु भवत्येव तस्य वर्णमात्राश्रितत्वात् । यथा पथिषु । अस्याः ज्ञापकः आचार उपमानात् अत उपधाया इत्यादिनिर्देशः॥ (विशेषणं तदन्तस्य स्वस्य च रूपस्योपस्थापकं वक्तव्यम् ॥) अप्रधानमात्मान्तस्य रूपस्य ग्राहकं भवति । स्वस्य रूपस्य चेत्यर्थः ॥ स्वराद इत्यत्र धातो. रिति विशेष्यं स्वरादिति विशेषणं तदन्तग्राहकं भवति ॥ स्वरान्ताद्धातोरप्रत्ययो भवतीति । स्वस्य रूपस्य च ग्राहकं स्वरूपाद्धातोश्चाप्रत्यय इति ॥ चयः, अयः। अस्या ज्ञापकोऽतिशये हसादेः अन्वये नानामित्यादिनिर्देशः।न ह्यत्र तदन्तविधि विना स्वराद इति विधीयमानोऽप्रत्ययःशीडो भवेत् । स्वरग्रहणं विना च इधातोरप्रत्ययो न लभ्येतेति इयं परिभाषा॥(यदादेशस्तद्वद्भवति॥) न तु वर्णमात्रविधी आदेशे कृते स्वरूपभेदात्। स्थानिप्रयुक्तकार्याणामप्रवृत्तावतिदेश आरभ्यते । आदेशः स्थानिवद्भवति । यथा लक्ष्म्यामित्यत्र डेरामादेशे कृते तस्यामो ङित्त्वात् ङितामडित्य भवति। वर्णमात्रविधौ स्थानिवद्भावो न भवति।वर्णश्च स्थान्यवयव एवात्रगृह्यते । यश्च वर्णमात्रेण विधिःयश्च वर्णमात्रात् परस्य विधियश्च वर्णमात्रंस विधिर्यस्य वर्णमात्रे विधिस्तत्र मा भूत् । तत्र वर्णमात्रेण विधौ यथा । व्यूढोरस्केनेत्यत्र सकारस्य स्थानिवत्त्वेन विसर्गत्वमाश्रित्यावकुप्वन्तरेऽपीति णत्वं प्राप्तमिति तन्न भवति ॥ वर्णमात्रात्परस्य यथा । द्यौरित्यत्र दिव औरित्यौकारस्य स्थानिवत्त्वेन पन्थाइत्यत्र आसावित्याकारस्य स्थानिवत्त्वेन च हसत्वमाश्रित्य हसेप इति सिलोपो न भवतीति ॥ वर्णमात्रस्य विधौ यथा । युकाम इत्यत्र ऊ रसे इत्युकारस्य स्थानिवत्त्वेन यवयोर्वसे हकारे च लोपो न भवतीति ॥ वर्णमात्रे विधौ यथा । क इष्ट इत्यत्र 'यज देवपूजादौ' इति धातोः क्तप्रत्यये परतः संप्रसारणस्य स्थानिवत्त्वेन यकारमाश्रित्य ‘हबे' इत्युकारो न भवतीति ॥ क्रियायां स्त्रियामित्यादिनिर्देशो ज्ञापकः ॥ इति परिभाषाः ॥
अथ स्वरसन्धिः । (इयं स्वरे) इव) यत्वमापद्यते स्वरे परे ॥ (सुबोधिनी)--इ यं स्वरे॥इइत्यनेन इत्वजातिनिर्दिश्यते न तु ह्रस्वव्यक्तिरेव । प्लुत इति निषेधसामर्थ्यात् ।यमिति द्वितीयान्तं कर्म । तस्य योग्यत्वात् । प्राप्नोतीत्य