________________
(१८)
सिद्धान्तचन्द्रिका। [ स्वरसन्धिः ] स्याध्याहारः कर्तव्यः । अथ इ इति क्लीवे कर्तृपदमस्ति । यमिति प्रथमान्तं क्लीवे । अकार उच्चारणार्थः। तदा सत्तार्थवाचकं क्रियापदमध्याहार्यमिति । स्वरे इति किम् । दधि पश्य । स्थानी आदेशो निमित्तं चेति त्रयं सर्वत्र बोध्यम् ॥ किंच अर्थवद्ग्रहणे नानर्थकस्येति परिभाषया अस्यापत्यमिः स्त्री चई इत्यत्रैव यकारःस्यात् न तु दध्यानयेत्यादौ। उच्यते । स्यादावित्यादिनिर्देशेन तस्यानित्यत्वज्ञापनान्न निषेधः। दध्यानयेत्यत्र नामिनः स्वरे इति नुम् न स्यादिस्वरत्वाभावात् । दध्य् इति स्थिते ।
(तत्त्वदी०)-इ यं स्वर इति ॥ इश्व ईश्चेति समाहारद्वन्द्वे एकवद्भावे नपुंसकत्वे च इ इति एतेन सांकेतिकत्वनिर्विभक्तिकत्वाद्युक्तिः परास्ता । ऋजुमार्गेण सिद्धयतोऽर्थस्य वक्रेण प्रदर्शनायोगात् । अर्थवद्ग्रहणे नानर्थकस्य इति परिभाषया केवलाया इव्यक्तेरेव ग्रहणं न तु दध्यादिस्थाया इति नाशङ्कनीयं स्यादावित्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । यमिति भावप्रधानो निर्देशः द्वयेकयोरितिवत् इत्याशयेनाह ॥ इवर्णो यत्वमापद्यत इति ॥ ननु इयं स्वरे' इत्यत्र इकारग्रहणं किमर्थमिति । उकारादीनां यत्ववारणायेति चेन्न उ वमित्यादि सत्रप्राबल्यात्। न च षडत्रेत्यादौ टकारादीनां यत्वनिषेधार्थ तदिति चेत् तत्रापि पूर्ववत् 'चपा अबे जबाः' इत्यादिसूत्रप्राबल्यात् । अथ पचतीत्यत्र चकारस्य तद्वारणायेति चेत् 'झ्नो हस्वात्' 'दीर्घात्' इति सूत्राभ्यां हस्वदीर्घग्रहणमनुवर्त्य हस्वदीर्घयोरेव यत्वविधानात् इति चेत्सत्यम् । चिनुह्यत्रेत्यादौ प्लुतस्यापि पक्षे यत्वविधानार्थमिग्रहणस्यावश्यकत्वात् । दद्ध्यानयेत्यत्रस्यादिस्वरत्वाभावात् 'नामिनः स्वरे' इतिनुमागमो नातद्धिवस्वरत्वाभावात् यस्य लोप इति यस्य लोपोऽपिन। नन्वत्र 'संयोगान्तस्य लोपः' इत्यनेन यलोपःकथं न स्यादिति चेत्सत्यम्। असिद्धं बहिरंगमन्तरंगे' इति न्यायेनान्तरंग लोपं प्रति बहिरंगस्य यादेशस्य असिद्धत्वादिति गृहाण ॥
(हसेहूं हसः) स्वरात्परो रेफहकारवर्जितो हसो हसे परे अवसाने च वा द्विर्भवति ॥ - (सुबोधिनी )--हसेऽहं हसः ॥ र च ह् चहौ न ही यस्मिन् सोऽई अत्र संयोगान्तस्पेति हलोपो न सभिन्नस्येति निषेधात् । रकारहकारभिन्नः स्वरात्परो हसो द्विर्वा स्यात् अवसाने हसे च ॥ स्वरादिति किम् । तस्मिन् स्नातः । हसे किम् । भवानत्र । हसः किम्। तिस उच्छत्रम् । अर्हिति किम् । हर्यानुभवः । नह्यस्ति । अवसाने यथा । वाकक्-वाग्ग् ! दधध्य इत्यत्र यकारस्य स्थानिवद्भावेन स्वरत्वमाश्रित्य हसेऽर्ह हस इति द्वित्वनिषेधो नाशङ्कयो न तु वर्णमात्रविधाविति स्थानिवद्भावनिषेधात् ॥
(तत्त्वदी०)-हसेऽह हस इति । अत्र 'झ्नो ह्रस्वात्' इति पूर्वसूत्रात्हस्वादित्यस्यानुवृत्तस्य चलक्षणया स्वपरत्व बोध्यम् । यत्तु दानं पात्रमित्यादौ दीर्घाद्वित्वनिवृत्त्यर्थ ह्रस्वादित्येव वक्तुंयोग्यमिति तन्न तत्र विकल्पेनैव तद्वारणसंभवात् । अत्र 'संयोगान्तस्य लोपः' इत्यनेनहलोपो न रात्सस्यैव लोप इति नियमात्।र् च ह च हौं ताभ्यामन्यः स तथा । अस्वरेऽई हस इति तु सुवचम् ।।